Mahabharata

Shanti Parva, Adhyaya 32

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 32, Verse 1

तूष्णींभूतं तु राजानं शोचमानं युधिष्ठिरम्

तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत्

Mahabharata

Shanti Parva, Adhyaya 32, Verse 2

प्रजानां पालनं धर्मो राज्ञां राजीवलोचन

धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तनम्

Mahabharata

Shanti Parva, Adhyaya 32, Verse 3

अनुतिष्ठस्व वै राजन्पितृपैतामहं पदम्

ब्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः

Mahabharata

Shanti Parva, Adhyaya 32, Verse 4

तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ

तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता

Mahabharata

Shanti Parva, Adhyaya 32, Verse 5

तथा यः प्रतिहन्त्यस्य शासनं विषये नरः

स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः

Mahabharata

Shanti Parva, Adhyaya 32, Verse 6

प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः

भृत्यो वा यदि वा पुत्रस्तपस्वी वापि कश्चन

पापान्सर्वैरुपायैस्तान्नियच्छेद्घातयेत वा

Mahabharata

Shanti Parva, Adhyaya 32, Verse 7

अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम्

धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा

Mahabharata

Shanti Parva, Adhyaya 32, Verse 8

ते त्वया धर्महन्तारो निहताः सपदानुगाः

स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव

राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः

Mahabharata

Shanti Parva, Adhyaya 32, Verse 9

न तेऽभिशङ्के वचनं यद्ब्रवीषि तपोधन

अपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर

Mahabharata

Shanti Parva, Adhyaya 32, Verse 10

मया ह्यवध्या बहवो घातिता राज्यकारणात्

तान्यकार्याणि मे ब्रह्मन्दहन्ति च तपन्ति च

Mahabharata

Shanti Parva, Adhyaya 32, Verse 11

ईश्वरो वा भवेत्कर्ता पुरुषो वापि भारत

हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम्

Mahabharata

Shanti Parva, Adhyaya 32, Verse 12

ईश्वरेण नियुक्ता हि साध्वसाधु च पार्थिव

कुर्वन्ति पुरुषाः कर्म फलमीश्वरगामि तत्

Mahabharata

Shanti Parva, Adhyaya 32, Verse 13

यथा हि पुरुषश्छिन्द्याद्वृक्षं परशुना वने

छेत्तुरेव भवेत्पापं परशोर्न कथंचन

Mahabharata

Shanti Parva, Adhyaya 32, Verse 14

अथ वा तदुपादानात्प्राप्नुयुः कर्मणः फलम्

दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते

Mahabharata

Shanti Parva, Adhyaya 32, Verse 15

न चैतदिष्टं कौन्तेय यदन्येन फलं कृतम्

प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय

Mahabharata

Shanti Parva, Adhyaya 32, Verse 16

अथ वा पुरुषः कर्ता कर्मणोः शुभपापयोः

न परं विद्यते तस्मादेवमन्यच्छुभं कुरु

Mahabharata

Shanti Parva, Adhyaya 32, Verse 17

न हि कश्चित्क्वचिद्राजन्दिष्टात्प्रतिनिवर्तते

दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते

Mahabharata

Shanti Parva, Adhyaya 32, Verse 18

यदि वा मन्यसे राजन्हठे लोकं प्रतिष्ठितम्

एवमप्यशुभं कर्म न भूतं न भविष्यति

Mahabharata

Shanti Parva, Adhyaya 32, Verse 19

अथाभिपत्तिर्लोकस्य कर्तव्या शुभपापयोः

अभिपन्नतमं लोके राज्ञामुद्यतदण्डनम्

Mahabharata

Shanti Parva, Adhyaya 32, Verse 20

अथापि लोके कर्माणि समावर्तन्त भारत

शुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतिः

Mahabharata

Shanti Parva, Adhyaya 32, Verse 21

एवं सत्यं शुभादेशं कर्मणस्तत्फलं ध्रुवम्

त्यज तद्राजशार्दूल मैवं शोके मनः कृथाः

Mahabharata

Shanti Parva, Adhyaya 32, Verse 22

स्वधर्मे वर्तमानस्य सापवादेऽपि भारत

एवमात्मपरित्यागस्तव राजन्न शोभनः

Mahabharata

Shanti Parva, Adhyaya 32, Verse 23

विहितानीह कौन्तेय प्रायश्चित्तानि कर्मिणाम्

शरीरवांस्तानि कुर्यादशरीरः पराभवेत्

Mahabharata

Shanti Parva, Adhyaya 32, Verse 24

तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं चरिष्यसि

प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत