Shanti Parva, Adhyaya 31, Verse 1
ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत
भगवञ्श्रोतुमिच्छामि सुवर्णष्ठीविसंभवम्
Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत
भगवञ्श्रोतुमिच्छामि सुवर्णष्ठीविसंभवम्
एवमुक्तः स च मुनिर्धर्मराजेन नारदः
आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति
एवमेतन्महाराज यथायं केशवोऽब्रवीत्
कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः
अहं च पर्वतश्चैव स्वस्रीयो मे महामुनिः
वस्तुकामावभिगतौ सृञ्जयं जयतां वरम्
तत्र संपूजितौ तेन विधिदृष्टेन कर्मणा
सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि
व्यतिक्रान्तासु वर्षासु समये गमनस्य च
पर्वतो मामुवाचेदं काले वचनमर्थवत्
आवामस्य नरेन्द्रस्य गृहे परमपूजितौ
उषितौ समये ब्रह्मंश्चिन्त्यतामत्र सांप्रतम्
ततोऽहमब्रुवं राजन्पर्वतं शुभदर्शनम्
सर्वमेतत्त्वयि विभो भागिनेयोपपद्यते
वरेण छन्द्यतां राजा लभतां यद्यदिच्छति
आवयोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे
तत आहूय राजानं सृञ्जयं शुभदर्शनम्
पर्वतोऽनुमतं वाक्यमुवाच मुनिपुंगवः
प्रीतौ स्वो नृप सत्कारैस्तव ह्यार्जवसंभृतैः
आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय
देवानामविहिंसायां यद्भवेन्मानुषक्षमम्
तद्गृहाण महाराज पूजार्हो नौ मतो भवान्
प्रीतौ भवन्तौ यदि मे कृतमेतावता मम
एष एव परो लाभो निर्वृत्तो मे महाफलः
तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत
वृणीष्व राजन्संकल्पो यस्ते हृदि चिरं स्थितः
अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम्
आयुष्मन्तं महाभागं देवराजसमद्युतिम्
भविष्यत्येष ते कामो न त्वायुष्मान्भविष्यति
देवराजाभिभूत्यर्थं संकल्पो ह्येष ते हृदि
सुवर्णष्ठीवनाच्चैव स्वर्णष्ठीवी भविष्यति
रक्ष्यश्च देवराजात्स देवराजसमद्युतिः
तच्छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः
प्रसादयामास तदा नैतदेवं भवेदिति
आयुष्मान्मे भवेत्पुत्रो भवतस्तपसा मुने
न च तं पर्वतः किंचिदुवाचेन्द्रव्यपेक्षया
तमहं नृपतिं दीनमब्रुवं पुनरेव तु
स्मर्तव्योऽहं महाराज दर्शयिष्यामि ते स्मृतः
अहं ते दयितं पुत्रं प्रेतराजवशं गतम्
पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते
एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम्
सृञ्जयश्च यथाकामं प्रविवेश स्वमन्दिरम्
सृञ्जयस्याथ राजर्षेः कस्मिंश्चित्कालपर्यये
जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव
ववृधे स यथाकालं सरसीव महोत्पलम्
बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत्
तदद्भुततमं लोके पप्रथे कुरुसत्तम
बुबुधे तच्च देवेन्द्रो वरदानं महात्मनोः
ततस्त्वभिभवाद्भीतो बृहस्पतिमते स्थितः
कुमारस्यान्तरप्रेक्षी बभूव बलवृत्रहा
चोदयामास वज्रं स दिव्यास्त्रं मूर्तिसंस्थितम्
व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो
विवृद्धः किल वीर्येण मामेषोऽभिभविष्यति
सृञ्जयस्य सुतो वज्र यथैनं पर्वतो ददौ
एवमुक्तस्तु शक्रेण वज्रः परपुरंजयः
कुमारस्यान्तरप्रेक्षी नित्यमेवान्वपद्यत
सृञ्जयोऽपि सुतं प्राप्य देवराजसमद्युतिम्
हृष्टः सान्तःपुरो राजा वननित्योऽभवत्तदा