Mahabharata

Shanti Parva, Adhyaya 29

Containing 141 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 29, Verse 1

अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे

गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः

Mahabharata

Shanti Parva, Adhyaya 29, Verse 2

ज्ञातिशोकाभिसंतप्तो धर्मराजः परंतपः

एष शोकार्णवे मग्नस्तमाश्वासय माधव

Mahabharata

Shanti Parva, Adhyaya 29, Verse 3

सर्वे स्म ते संशयिताः पुनरेव जनार्दन

अस्य शोकं महाबाहो प्रणाशयितुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 29, Verse 4

एवमुक्तस्तु गोविन्दो विजयेन महात्मना

पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः

Mahabharata

Shanti Parva, Adhyaya 29, Verse 5

अनतिक्रमणीयो हि धर्मराजस्य केशवः

बाल्यात्प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोऽर्जुनात्

Mahabharata

Shanti Parva, Adhyaya 29, Verse 6

संप्रगृह्य महाबाहुर्भुजं चन्दनभूषितम्

शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन्

Mahabharata

Shanti Parva, Adhyaya 29, Verse 7

शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम्

व्याकोशमिव विस्पष्टं पद्मं सूर्यविबोधितम्

Mahabharata

Shanti Parva, Adhyaya 29, Verse 8

मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम्

न हि ते सुलभा भूयो ये हतास्मिन्रणाजिरे

Mahabharata

Shanti Parva, Adhyaya 29, Verse 9

स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने

एवं ते क्षत्रिया राजन्ये व्यतीता महारणे

Mahabharata

Shanti Parva, Adhyaya 29, Verse 10

सर्वे ह्यभिमुखाः शूरा विगता रणशोभिनः

नैषां कश्चित्पृष्ठतो वा पलायन्वापि पातितः

Mahabharata

Shanti Parva, Adhyaya 29, Verse 11

सर्वे त्यक्त्वात्मनः प्राणान्युद्ध्वा वीरा महाहवे

शस्त्रपूता दिवं प्राप्ता न ताञ्शोचितुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 29, Verse 12

अत्रैवोदाहरन्तीममितिहासं पुरातनम्

सृञ्जयं पुत्रशोकार्तं यथायं प्राह नारदः

Mahabharata

Shanti Parva, Adhyaya 29, Verse 13

सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय

अविमुक्तं चरिष्यामस्तत्र का परिदेवना

Mahabharata

Shanti Parva, Adhyaya 29, Verse 14

महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु

गच्छावधानं नृपते ततो दुःखं प्रहास्यसि

Mahabharata

Shanti Parva, Adhyaya 29, Verse 15

मृतान्महानुभावांस्त्वं श्रुत्वैव तु महीपतीन्

श्रुत्वापनय संतापं शृणु विस्तरशश्च मे

Mahabharata

Shanti Parva, Adhyaya 29, Verse 16

आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि

यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः

देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः

Mahabharata

Shanti Parva, Adhyaya 29, Verse 17

यः स्पर्धामनयच्छक्रं देवराजं शतक्रतुम्

शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः

संवर्तो याजयामास यं पीडार्थं बृहस्पतेः

Mahabharata

Shanti Parva, Adhyaya 29, Verse 18

यस्मिन्प्रशासति सतां नृपतौ नृपसत्तम

अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी

Mahabharata

Shanti Parva, Adhyaya 29, Verse 19

आविक्षितस्य वै सत्रे विश्वे देवाः सभासदः

मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः

Mahabharata

Shanti Parva, Adhyaya 29, Verse 20

मरुद्गणा मरुत्तस्य यत्सोममपिबन्त ते

देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः

Mahabharata

Shanti Parva, Adhyaya 29, Verse 21

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः

Mahabharata

Shanti Parva, Adhyaya 29, Verse 22

सुहोत्रं चेद्वैतिथिनं मृतं सृञ्जय शुश्रुम

यस्मै हिरण्यं ववृषे मघवान्परिवत्सरम्

Mahabharata

Shanti Parva, Adhyaya 29, Verse 23

सत्यनामा वसुमती यं प्राप्यासीज्जनाधिप

हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे

Mahabharata

Shanti Parva, Adhyaya 29, Verse 24

कूर्मान्कर्कटकान्नक्रान्मकराञ्शिंशुकानपि

नदीष्वपातयद्राजन्मघवा लोकपूजितः

Mahabharata

Shanti Parva, Adhyaya 29, Verse 25

हैरण्यान्पतितान्दृष्ट्वा मत्स्यान्मकरकच्छपान्

सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः

Mahabharata

Shanti Parva, Adhyaya 29, Verse 26

तद्धिरण्यमपर्यन्तमावृत्तं कुरुजाङ्गले

ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः

Mahabharata

Shanti Parva, Adhyaya 29, Verse 27

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया

पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः

अदक्षिणमयज्वानं श्वैत्य संशाम्य मा शुचः

Mahabharata

Shanti Parva, Adhyaya 29, Verse 28

अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय

यः सहस्रं सहस्राणां श्वेतानश्वानवासृजत्

Mahabharata

Shanti Parva, Adhyaya 29, Verse 29

सहस्रं च सहस्राणां कन्या हेमविभूषिताः

ईजानो वितते यज्ञे दक्षिणामत्यकालयत्

Mahabharata

Shanti Parva, Adhyaya 29, Verse 30

शतं शतसहस्राणां वृषाणां हेममालिनाम्

गवां सहस्रानुचरं दक्षिणामत्यकालयत्