Mahabharata

Shanti Parva, Adhyaya 28

Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 28, Verse 1

ज्ञातिशोकाभितप्तस्य प्राणानभ्युत्सिसृक्षतः

ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत्

Mahabharata

Shanti Parva, Adhyaya 28, Verse 2

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 28, Verse 3

अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः

संशयं परिपप्रच्छ दुःखशोकपरिप्लुतः

Mahabharata

Shanti Parva, Adhyaya 28, Verse 4

आगमे यदि वापाये ज्ञातीनां द्रविणस्य च

नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता

Mahabharata

Shanti Parva, Adhyaya 28, Verse 5

उत्पन्नमिममात्मानं नरस्यानन्तरं ततः

तानि तान्यभिवर्तन्ते दुःखानि च सुखानि च

Mahabharata

Shanti Parva, Adhyaya 28, Verse 6

तेषामन्यतरापत्तौ यद्यदेवोपसेवते

तत्तद्धि चेतनामस्य हरत्यभ्रमिवानिलः

Mahabharata

Shanti Parva, Adhyaya 28, Verse 7

अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः

इत्येवं हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यति

Mahabharata

Shanti Parva, Adhyaya 28, Verse 8

स प्रसिक्तमना भोगान्विसृज्य पितृसंचितान्

परिक्षीणः परस्वानामादानं साधु मन्यते

Mahabharata

Shanti Parva, Adhyaya 28, Verse 9

तमतिक्रान्तमर्यादमाददानमसांप्रतम्

प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः

Mahabharata

Shanti Parva, Adhyaya 28, Verse 10

ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः

परेण ते वर्षशतान्न भविष्यन्ति पार्थिव

Mahabharata

Shanti Parva, Adhyaya 28, Verse 11

तेषां परमदुःखानां बुद्ध्या भेषजमादिशेत्

सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः

Mahabharata

Shanti Parva, Adhyaya 28, Verse 12

मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः

अनिष्टोपनिपातो वा तृतीयं नोपपद्यते

Mahabharata

Shanti Parva, Adhyaya 28, Verse 13

एवमेतानि दुःखानि तानि तानीह मानवम्

विविधान्युपवर्तन्ते तथा सांस्पर्शकानि च

Mahabharata

Shanti Parva, Adhyaya 28, Verse 14

जरामृत्यू ह भूतानि खादितारौ वृकाविव

बलिनां दुर्बलानां च ह्रस्वानां महतामपि

Mahabharata

Shanti Parva, Adhyaya 28, Verse 15

न कश्चिज्जात्वतिक्रामेज्जरामृत्यू ह मानवः

अपि सागरपर्यन्तां विजित्येमां वसुंधराम्

Mahabharata

Shanti Parva, Adhyaya 28, Verse 16

सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम्

प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते

Mahabharata

Shanti Parva, Adhyaya 28, Verse 17

पूर्वे वयसि मध्ये वाप्युत्तमे वा नराधिप

अवर्जनीयास्तेऽर्था वै काङ्क्षिताश्च ततोऽन्यथा

Mahabharata

Shanti Parva, Adhyaya 28, Verse 18

सुप्रियैर्विप्रयोगश्च संप्रयोगस्तथाप्रियैः

अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते

Mahabharata

Shanti Parva, Adhyaya 28, Verse 19

प्रादुर्भावश्च भूतानां देहन्यासस्तथैव च

प्राप्तिव्यायामयोगश्च सर्वमेतत्प्रतिष्ठितम्

Mahabharata

Shanti Parva, Adhyaya 28, Verse 20

गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः

तथैव सुखदुःखानि विधानमनुवर्तते

Mahabharata

Shanti Parva, Adhyaya 28, Verse 21

आसनं शयनं यानमुत्थानं पानभोजनम्

नियतं सर्वभूतानां कालेनैव भवन्त्युत

Mahabharata

Shanti Parva, Adhyaya 28, Verse 22

वैद्याश्चाप्यातुराः सन्ति बलवन्तः सुदुर्बलाः

स्त्रीमन्तश्च तथा षण्ढा विचित्रः कालपर्ययः

Mahabharata

Shanti Parva, Adhyaya 28, Verse 23

कुले जन्म तथा वीर्यमारोग्यं धैर्यमेव च

सौभाग्यमुपभोगश्च भवितव्येन लभ्यते

Mahabharata

Shanti Parva, Adhyaya 28, Verse 24

सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम्

बहूनामिच्छतां नास्ति समृद्धानां विचेष्टताम्

Mahabharata

Shanti Parva, Adhyaya 28, Verse 25

व्याधिरग्निर्जलं शस्त्रं बुभुक्षा श्वापदं विषम्

रज्ज्वा च मरणं जन्तोरुच्चाच्च पतनं तथा

Mahabharata

Shanti Parva, Adhyaya 28, Verse 26

निर्याणं यस्य यद्दिष्टं तेन गच्छति हेतुना

दृश्यते नाभ्यतिक्रामन्नतिक्रान्तो न वा पुनः

Mahabharata

Shanti Parva, Adhyaya 28, Verse 27

दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः

दरिद्रश्च परिक्लिष्टः शतवर्षो जनाधिप

Mahabharata

Shanti Parva, Adhyaya 28, Verse 28

अकिंचनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः

समृद्धे च कुले जाता विनश्यन्ति पतंगवत्

Mahabharata

Shanti Parva, Adhyaya 28, Verse 29

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते

काष्ठान्यपि हि जीर्यन्ते दरिद्राणां नराधिप

Mahabharata

Shanti Parva, Adhyaya 28, Verse 30

अहमेतत्करोमीति मन्यते कालचोदितः

यद्यदिष्टमसंतोषाद्दुरात्मा पापमाचरन्