Mahabharata

Shanti Parva, Adhyaya 27

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 27, Verse 1

अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च

धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ

Mahabharata

Shanti Parva, Adhyaya 27, Verse 2

वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे

तथान्येषु नरेन्द्रेषु नानादेश्येषु संयुगे

Mahabharata

Shanti Parva, Adhyaya 27, Verse 3

न विमुञ्चति मां शोको ज्ञातिघातिनमातुरम्

राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारकम्

Mahabharata

Shanti Parva, Adhyaya 27, Verse 4

यस्याङ्के क्रीडमानेन मया वै परिवर्तितम्

स मया राज्यलुब्धेन गाङ्गेयो विनिपातितः

Mahabharata

Shanti Parva, Adhyaya 27, Verse 5

यदा ह्येनं विघूर्णन्तमपश्यं पार्थसायकैः

कम्पमानं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम्

Mahabharata

Shanti Parva, Adhyaya 27, Verse 6

जीर्णं सिंहमिव प्रांशुं नरसिंहं पितामहम्

कीर्यमाणं शरैस्तीक्ष्णैर्दृष्ट्वा मे व्यथितं मनः

Mahabharata

Shanti Parva, Adhyaya 27, Verse 7

प्राङ्मुखं सीदमानं च रथादपच्युतं शरैः

घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत्

Mahabharata

Shanti Parva, Adhyaya 27, Verse 8

यः स बाणधनुष्पाणिर्योधयामास भार्गवम्

बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे

Mahabharata

Shanti Parva, Adhyaya 27, Verse 9

समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः

कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे

Mahabharata

Shanti Parva, Adhyaya 27, Verse 10

येन चोग्रायुधो राजा चक्रवर्ती दुरासदः

दग्धः शस्त्रप्रतापेन स मया युधि घातितः

Mahabharata

Shanti Parva, Adhyaya 27, Verse 11

स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम्

न बाणैः पातयामास सोऽर्जुनेन निपातितः

Mahabharata

Shanti Parva, Adhyaya 27, Verse 12

यदैनं पतितं भूमावपश्यं रुधिरोक्षितम्

तदैवाविशदत्युग्रो ज्वरो मे मुनिसत्तम

येन संवर्धिता बाला येन स्म परिरक्षिताः

Mahabharata

Shanti Parva, Adhyaya 27, Verse 13

स मया राज्यलुब्धेन पापेन गुरुघातिना

अल्पकालस्य राज्यस्य कृते मूढेन घातितः

Mahabharata

Shanti Parva, Adhyaya 27, Verse 14

आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः

अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति

Mahabharata

Shanti Parva, Adhyaya 27, Verse 15

तन्मे दहति गात्राणि यन्मां गुरुरभाषत

सत्यवाक्यो हि राजंस्त्वं यदि जीवति मे सुतः

सत्यं मा मर्शयन्विप्रो मयि तत्परिपृष्टवान्

Mahabharata

Shanti Parva, Adhyaya 27, Verse 16

कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मया

सुभृशं राज्यलुब्धेन पापेन गुरुघातिना

Mahabharata

Shanti Parva, Adhyaya 27, Verse 17

सत्यकञ्चुकमास्थाय मयोक्तो गुरुराहवे

अश्वत्थामा हत इति कुञ्जरे विनिपातिते

कान्नु लोकान्गमिष्यामि कृत्वा तत्कर्म दारुणम्

Mahabharata

Shanti Parva, Adhyaya 27, Verse 18

अघातयं च यत्कर्णं समरेष्वपलायिनम्

ज्येष्ठं भ्रातरमत्युग्रं को मत्तः पापकृत्तमः

Mahabharata

Shanti Parva, Adhyaya 27, Verse 19

अभिमन्युं च यद्बालं जातं सिंहमिवाद्रिषु

प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम्

Mahabharata

Shanti Parva, Adhyaya 27, Verse 20

तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम्

कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा

Mahabharata

Shanti Parva, Adhyaya 27, Verse 21

द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रविनाकृताम्

शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव

Mahabharata

Shanti Parva, Adhyaya 27, Verse 22

सोऽहमागस्करः पापः पृथिवीनाशकारकः

आसीन एवमेवेदं शोषयिष्ये कलेवरम्

Mahabharata

Shanti Parva, Adhyaya 27, Verse 23

प्रायोपविष्टं जानीध्वमद्य मां गुरुघातिनम्

जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत्

Mahabharata

Shanti Parva, Adhyaya 27, Verse 24

न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथंचन

शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधन

Mahabharata

Shanti Parva, Adhyaya 27, Verse 25

यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः

सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम्

Mahabharata

Shanti Parva, Adhyaya 27, Verse 26

तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम्

मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः

Mahabharata

Shanti Parva, Adhyaya 27, Verse 27

अतिवेलं महाराज न शोकं कर्तुमर्हसि

पुनरुक्तं प्रवक्ष्यामि दिष्टमेतदिति प्रभो

Mahabharata

Shanti Parva, Adhyaya 27, Verse 28

संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम्

बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च

Mahabharata

Shanti Parva, Adhyaya 27, Verse 29

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः

संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्

Mahabharata

Shanti Parva, Adhyaya 27, Verse 30

सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम्

भूतिः श्रीर्ह्रीर्धृतिः सिद्धिर्नादक्षे निवसन्त्युत