Mahabharata

Shanti Parva, Adhyaya 26

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 26, Verse 1

द्वैपायनवचः श्रुत्वा कुपिते च धनंजये

व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः

Mahabharata

Shanti Parva, Adhyaya 26, Verse 2

न पार्थिवमिदं राज्यं न च भोगाः पृथग्विधाः

प्रीणयन्ति मनो मेऽद्य शोको मां नर्दयत्ययम्

Mahabharata

Shanti Parva, Adhyaya 26, Verse 3

श्रुत्वा च वीरहीनानामपुत्राणां च योषिताम्

परिदेवयमानानां शान्तिं नोपलभे मुने

Mahabharata

Shanti Parva, Adhyaya 26, Verse 4

इत्युक्तः प्रत्युवाचेदं व्यासो योगविदां वरः

युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः

Mahabharata

Shanti Parva, Adhyaya 26, Verse 5

न कर्मणा लभ्यते चिन्तया वा; नाप्यस्य दाता पुरुषस्य कश्चित्

पर्याययोगाद्विहितं विधात्रा; कालेन सर्वं लभते मनुष्यः

Mahabharata

Shanti Parva, Adhyaya 26, Verse 6

न बुद्धिशास्त्राध्ययनेन शक्यं; प्राप्तुं विशेषैर्मनुजैरकाले

मूर्खोऽपि प्राप्नोति कदाचिदर्था;न्कालो हि कार्यं प्रति निर्विशेषः

Mahabharata

Shanti Parva, Adhyaya 26, Verse 7

नाभूतिकाले च फलं ददाति; शिल्पं न मन्त्राश्च तथौषधानि

तान्येव कालेन समाहितानि; सिध्यन्ति चेध्यन्ति च भूतिकाले

Mahabharata

Shanti Parva, Adhyaya 26, Verse 8

कालेन शीघ्राः प्रविवान्ति वाताः; कालेन वृष्टिर्जलदानुपैति

कालेन पद्मोत्पलवज्जलं च; कालेन पुष्यन्ति नगा वनेषु

Mahabharata

Shanti Parva, Adhyaya 26, Verse 9

कालेन कृष्णाश्च सिताश्च रात्र्यः; कालेन चन्द्रः परिपूर्णबिम्बः

नाकालतः पुष्पफलं नगानां; नाकालवेगाः सरितो वहन्ति

Mahabharata

Shanti Parva, Adhyaya 26, Verse 10

नाकालमत्ताः खगपन्नगाश्च; मृगद्विपाः शैलमहाग्रहाश्च

नाकालतः स्त्रीषु भवन्ति गर्भा; नायान्त्यकाले शिशिरोष्णवर्षाः

Mahabharata

Shanti Parva, Adhyaya 26, Verse 11

नाकालतो म्रियते जायते वा; नाकालतो व्याहरते च बालः

नाकालतो यौवनमभ्युपैति; नाकालतो रोहति बीजमुप्तम्

Mahabharata

Shanti Parva, Adhyaya 26, Verse 12

नाकालतो भानुरुपैति योगं; नाकालतोऽस्तं गिरिमभ्युपैति

नाकालतो वर्धते हीयते च; चन्द्रः समुद्रश्च महोर्मिमाली

Mahabharata

Shanti Parva, Adhyaya 26, Verse 13

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 26, Verse 14

सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुस्तरः

कालेन परिपक्वा हि म्रियन्ते सर्वमानवाः

Mahabharata

Shanti Parva, Adhyaya 26, Verse 15

घ्नन्ति चान्यान्नरा राजंस्तानप्यन्ये नरास्तथा

संज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते

Mahabharata

Shanti Parva, Adhyaya 26, Verse 16

हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरे

स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ

Mahabharata

Shanti Parva, Adhyaya 26, Verse 17

नष्टे धने वा दारे वा पुत्रे पितरि वा मृते

अहो कष्टमिति ध्यायञ्शोकस्यापचितिं चरेत्

Mahabharata

Shanti Parva, Adhyaya 26, Verse 18

स किं शोचसि मूढः सञ्शोच्यः किमनुशोचसि

पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि

Mahabharata

Shanti Parva, Adhyaya 26, Verse 19

आत्मापि चायं न मम सर्वापि पृथिवी मम

यथा मम तथान्येषामिति पश्यन्न मुह्यति

Mahabharata

Shanti Parva, Adhyaya 26, Verse 20

शोकस्थानसहस्राणि हर्षस्थानशतानि च

दिवसे दिवसे मूढमाविशन्ति न पण्डितम्

Mahabharata

Shanti Parva, Adhyaya 26, Verse 21

एवमेतानि कालेन प्रियद्वेष्याणि भागशः

जीवेषु परिवर्तन्ते दुःखानि च सुखानि च

Mahabharata

Shanti Parva, Adhyaya 26, Verse 22

दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते

तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्

Mahabharata

Shanti Parva, Adhyaya 26, Verse 23

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्

न नित्यं लभते दुःखं न नित्यं लभते सुखम्

Mahabharata

Shanti Parva, Adhyaya 26, Verse 24

सुखमन्ते हि दुःखानां दुःखमन्ते सुखस्य च

तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम्

Mahabharata

Shanti Parva, Adhyaya 26, Verse 25

यन्निमित्तं भवेच्छोकस्तापो वा दुःखमूर्छितः

आयासो वापि यन्मूलस्तदेकाङ्गमपि त्यजेत्

Mahabharata

Shanti Parva, Adhyaya 26, Verse 26

सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम्

प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः

Mahabharata

Shanti Parva, Adhyaya 26, Verse 27

ईषदप्यङ्ग दाराणां पुत्राणां वा चराप्रियम्

ततो ज्ञास्यसि कः कस्य केन वा कथमेव वा

Mahabharata

Shanti Parva, Adhyaya 26, Verse 28

ये च मूढतमा लोके ये च बुद्धेः परं गताः

त एव सुखमेधन्ते मध्यः क्लेशेन युज्यते

Mahabharata

Shanti Parva, Adhyaya 26, Verse 29

इत्यब्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित्

परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित्

Mahabharata

Shanti Parva, Adhyaya 26, Verse 30

सुखी परस्य यो दुःखे न जातु स सुखी भवेत्

दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम्