Shanti Parva, Adhyaya 25, Verse 1
पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽब्रवीत्
अजातशत्रुं कौन्तेयमिदं वचनमर्थवत्
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽब्रवीत्
अजातशत्रुं कौन्तेयमिदं वचनमर्थवत्
अरण्ये वसतां तात भ्रातॄणां ते तपस्विनाम्
मनोरथा महाराज ये तत्रासन्युधिष्ठिर
तानिमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः
प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः
अरण्ये दुःखवसतिरनुभूता तपस्विभिः
दुःखस्यान्ते नरव्याघ्राः सुखं त्वनुभवन्त्विमे
धर्ममर्थं च कामं च भ्रातृभिः सह भारत
अनुभूय ततः पश्चात्प्रस्थातासि विशां पते
अतिथीनां च पितॄणां देवतानां च भारत
आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि
सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन
ततः पश्चान्महाराज गमिष्यसि परां गतिम्
भ्रातॄंश्च सर्वान्क्रतुभिः संयोज्य बहुदक्षिणैः
संप्राप्तः कीर्तिमतुलां पाण्डवेय भविष्यसि
विद्म ते पुरुषव्याघ्र वचनं कुरुनन्दन
शृणु मच्च यथा कुर्वन्धर्मान्न च्यवते नृपः
आददानस्य च धनं निग्रहं च युधिष्ठिर
समानं धर्मकुशलाः स्थापयन्ति नरेश्वर
देशकालप्रतीक्षे यो दस्योर्दर्शयते नृपः
शास्त्रजां बुद्धिमास्थाय नैनसा स हि युज्यते
आदाय बलिषड्भागं यो राष्ट्रं नाभिरक्षति
प्रतिगृह्णाति तत्पापं चतुर्थांशेन पार्थिवः
निबोध च यथातिष्ठन्धर्मान्न च्यवते नृपः
निग्रहाद्धर्मशास्त्राणामनुरुध्यन्नपेतभीः
कामक्रोधावनादृत्य पितेव समदर्शनः
दैवेनोपहते राजा कर्मकाले महाद्युते
प्रमादयति तत्कर्म न तत्राहुरतिक्रमम्
तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः
पापैः सह न संदध्याद्राष्ट्रं पण्यं न कारयेत्
शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर
गोमतो धनिनश्चैव परिपाल्या विशेषतः
व्यवहारेषु धर्म्येषु नियोज्याश्च बहुश्रुताः
गुणयुक्तेऽपि नैकस्मिन्विश्वस्याच्च विचक्षणः
अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः
एनसा युज्यते राजा दुर्दान्त इति चोच्यते
येऽरक्ष्यमाणा हीयन्ते दैवेनोपहते नृपे
तस्करैश्चापि हन्यन्ते सर्वं तद्राजकिल्बिषम्
सुमन्त्रिते सुनीते च विधिवच्चोपपादिते
पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर
विपद्यन्ते समारम्भाः सिध्यन्त्यपि च दैवतः
कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम्
अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम्
यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पार्थिव
शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः
असहायस्य धीरस्य निर्जितस्य युधिष्ठिर
यत्कर्म वै निग्रहे शात्रवाणां; योगश्चाग्र्यः पालने मानवानाम्
कृत्वा कर्म प्राप्य कीर्तिं सुयुद्धे; वाजिग्रीवो मोदते देवलोके
संत्यक्तात्मा समरेष्वाततायी; शस्त्रैश्छिन्नो दस्युभिरर्द्यमानः
अश्वग्रीवः कर्मशीलो महात्मा; संसिद्धात्मा मोदते देवलोके
धनुर्यूपो रशना ज्या शरः स्रु;क्स्रुवः खड्गो रुधिरं यत्र चाज्यम्
रथो वेदी कामगो युद्धमग्नि;श्चातुर्होत्रं चतुरो वाजिमुख्याः
हुत्वा तस्मिन्यज्ञवह्नावथारी;न्पापान्मुक्तो राजसिंहस्तरस्वी
प्राणान्हुत्वा चावभृथे रणे स; वाजिग्रीवो मोदते देवलोके
राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन; संत्यक्तात्मा यज्ञशीलो महात्मा
सर्वाँल्लोकान्व्याप्य कीर्त्या मनस्वी; वाजिग्रीवो मोदते देवलोके
दैवीं सिद्धिं मानुषीं दण्डनीतिं; योगन्यायैः पालयित्वा महीं च
तस्माद्राजा धर्मशीलो महात्मा; हयग्रीवो मोदते स्वर्गलोके
विद्वांस्त्यागी श्रद्दधानः कृतज्ञ;स्त्यक्त्वा लोकं मानुषं कर्म कृत्वा
मेधाविनां विदुषां संमतानां; तनुत्यजां लोकमाक्रम्य राजा