Mahabharata

Shanti Parva, Adhyaya 24

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 24, Verse 1

भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः

संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम्

Mahabharata

Shanti Parva, Adhyaya 24, Verse 2

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

शङ्खश्च लिखितश्चास्तां भ्रातरौ संयतव्रतौ

Mahabharata

Shanti Parva, Adhyaya 24, Verse 3

तयोरावसथावास्तां रमणीयौ पृथक्पृथक्

नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु

Mahabharata

Shanti Parva, Adhyaya 24, Verse 4

ततः कदाचिल्लिखितः शङ्खस्याश्रममागमत्

यदृच्छयापि शङ्खोऽथ निष्क्रान्तोऽभवदाश्रमात्

Mahabharata

Shanti Parva, Adhyaya 24, Verse 5

सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा

फलानि शातयामास सम्यक्परिणतान्युत

Mahabharata

Shanti Parva, Adhyaya 24, Verse 6

तान्युपादाय विस्रब्धो भक्षयामास स द्विजः

तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागमत्

Mahabharata

Shanti Parva, Adhyaya 24, Verse 7

भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत्

कुतः फलान्यवाप्तानि हेतुना केन खादसि

Mahabharata

Shanti Parva, Adhyaya 24, Verse 8

सोऽब्रवीद्भ्रातरं ज्येष्ठमुपस्पृश्याभिवाद्य च

इत एव गृहीतानि मयेति प्रहसन्निव

Mahabharata

Shanti Parva, Adhyaya 24, Verse 9

तमब्रवीत्तदा शङ्खस्तीव्रकोपसमन्वितः

स्तेयं त्वया कृतमिदं फलान्याददता स्वयम्

गच्छ राजानमासाद्य स्वकर्म प्रथयस्व वै

Mahabharata

Shanti Parva, Adhyaya 24, Verse 10

अदत्तादानमेवेदं कृतं पार्थिवसत्तम

स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय

शीघ्रं धारय चौरस्य मम दण्डं नराधिप

Mahabharata

Shanti Parva, Adhyaya 24, Verse 11

इत्युक्तस्तस्य वचनात्सुद्युम्नं वसुधाधिपम्

अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः

Mahabharata

Shanti Parva, Adhyaya 24, Verse 12

सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम्

अभ्यगच्छत्सहामात्यः पद्भ्यामेव नरेश्वरः

Mahabharata

Shanti Parva, Adhyaya 24, Verse 13

तमब्रवीत्समागत्य स राजा ब्रह्मवित्तमम्

किमागमनमाचक्ष्व भगवन्कृतमेव तत्

Mahabharata

Shanti Parva, Adhyaya 24, Verse 14

एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत्

प्रतिश्रौषि करिष्येति श्रुत्वा तत्कर्तुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 24, Verse 15

अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ

भक्षितानि मया राजंस्तत्र मां शाधि माचिरम्

Mahabharata

Shanti Parva, Adhyaya 24, Verse 16

प्रमाणं चेन्मतो राजा भवतो दण्डधारणे

अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ

Mahabharata

Shanti Parva, Adhyaya 24, Verse 17

स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः

ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः

Mahabharata

Shanti Parva, Adhyaya 24, Verse 18

छन्द्यमानोऽपि ब्रह्मर्षिः पार्थिवेन महात्मना

नान्यं वै वरयामास तस्माद्दण्डादृते वरम्

Mahabharata

Shanti Parva, Adhyaya 24, Verse 19

ततः स पृथिवीपालो लिखितस्य महात्मनः

करौ प्रच्छेदयामास धृतदण्डो जगाम सः

Mahabharata

Shanti Parva, Adhyaya 24, Verse 20

स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम्

धृतदण्डस्य दुर्भुद्धेर्भगवन्क्षन्तुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 24, Verse 21

न कुप्ये तव धर्मज्ञ न च दूषयसे मम

धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता

Mahabharata

Shanti Parva, Adhyaya 24, Verse 22

स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि

देवान्पितॄनृषींश्चैव मा चाधर्मे मनः कृथाः

Mahabharata

Shanti Parva, Adhyaya 24, Verse 23

तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा

अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे

Mahabharata

Shanti Parva, Adhyaya 24, Verse 24

प्रादुरास्तां ततस्तस्य करौ जलजसंनिभौ

ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ

Mahabharata

Shanti Parva, Adhyaya 24, Verse 25

ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया

मा च तेऽत्र विशङ्का भूद्दैवमेव विधीयते

Mahabharata

Shanti Parva, Adhyaya 24, Verse 26

किं नु नाहं त्वया पूतः पूर्वमेव महाद्युते

यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम

Mahabharata

Shanti Parva, Adhyaya 24, Verse 27

एवमेतन्मया कार्यं नाहं दण्डधरस्तव

स च पूतो नरपतिस्त्वं चापि पितृभिः सह

Mahabharata

Shanti Parva, Adhyaya 24, Verse 28

स राजा पाण्डवश्रेष्ठ श्रेष्ठो वै तेन कर्मणा

प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा

Mahabharata

Shanti Parva, Adhyaya 24, Verse 29

एष धर्मः क्षत्रियाणां प्रजानां परिपालनम्

उत्पथेऽस्मिन्महाराज मा च शोके मनः कृथाः

Mahabharata

Shanti Parva, Adhyaya 24, Verse 30

भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम

दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम्