Shanti Parva, Adhyaya 23, Verse 1
एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत
नोवाच किंचित्कौरव्यस्ततो द्वैपायनोऽब्रवीत्
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत
नोवाच किंचित्कौरव्यस्ततो द्वैपायनोऽब्रवीत्
बीभत्सोर्वचनं सम्यक्सत्यमेतद्युधिष्ठिर
शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः
स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि
न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते
गृहस्थं हि सदा देवाः पितर ऋषयस्तथा
भृत्याश्चैवोपजीवन्ति तान्भजस्व महीपते
वयांसि पशवश्चैव भूतानि च महीपते
गृहस्थैरेव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही
सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः
तं चराविमनाः पार्थ दुश्चरं दुर्बलेन्द्रियैः
वेदज्ञानं च ते कृत्स्नं तपश्च चरितं महत्
पितृपैतामहे राज्ये धुरमुद्वोढुमर्हसि
तपो यज्ञस्तथा विद्या भैक्षमिन्द्रियनिग्रहः
ध्यानमेकान्तशीलत्वं तुष्टिर्दानं च शक्तितः
ब्राह्मणानां महाराज चेष्टाः संसिद्धिकारिकाः
क्षत्रियाणां च वक्ष्यामि तवापि विदितं पुनः
यज्ञो विद्या समुत्थानमसंतोषः श्रियं प्रति
दण्डधारणमत्युग्रं प्रजानां परिपालनम्
वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा
द्रविणोपार्जनं भूरि पात्रेषु प्रतिपादनम्
एतानि राज्ञां कर्माणि सुकृतानि विशां पते
इमं लोकममुं लोकं साधयन्तीति नः श्रुतम्
तेषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते
बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः
एताश्चेष्टाः क्षत्रियाणां राजन्संसिद्धिकारिकाः
अपि गाथामिमां चापि बृहस्पतिरभाषत
भूमिरेतौ निगिरति सर्पो बिलशयानिव
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्
सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात्
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा