Mahabharata

Shanti Parva, Adhyaya 22

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 22, Verse 1

तस्मिन्वाक्यान्तरे वाक्यं पुनरेवार्जुनोऽब्रवीत्

विषण्णमनसं ज्येष्ठमिदं भ्रातरमीश्वरम्

Mahabharata

Shanti Parva, Adhyaya 22, Verse 2

क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यमनुत्तमम्

जित्वा चारीन्नरश्रेष्ठ तप्यते किं भवान्भृशम्

Mahabharata

Shanti Parva, Adhyaya 22, Verse 3

क्षत्रियाणां महाराज संग्रामे निधनं स्मृतम्

विशिष्टं बहुभिर्यज्ञैः क्षत्रधर्ममनुस्मर

Mahabharata

Shanti Parva, Adhyaya 22, Verse 4

ब्राह्मणानां तपस्त्यागः प्रेत्यधर्मविधिः स्मृतः

क्षत्रियाणां च विहितं संग्रामे निधनं विभो

Mahabharata

Shanti Parva, Adhyaya 22, Verse 5

क्षत्रधर्मो महारौद्रः शस्त्रनित्य इति स्मृतः

वधश्च भरतश्रेष्ठ काले शस्त्रेण संयुगे

Mahabharata

Shanti Parva, Adhyaya 22, Verse 6

ब्राह्मणस्यापि चेद्राजन्क्षत्रधर्मेण तिष्ठतः

प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसंस्थितम्

Mahabharata

Shanti Parva, Adhyaya 22, Verse 7

न त्यागो न पुनर्याच्ञा न तपो मनुजेश्वर

क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम्

Mahabharata

Shanti Parva, Adhyaya 22, Verse 8

स भवान्सर्वधर्मज्ञः सर्वात्मा भरतर्षभ

राजा मनीषी निपुणो लोके दृष्टपरावरः

Mahabharata

Shanti Parva, Adhyaya 22, Verse 9

त्यक्त्वा संतापजं शोकं दंशितो भव कर्मणि

क्षत्रियस्य विशेषेण हृदयं वज्रसंहतम्

Mahabharata

Shanti Parva, Adhyaya 22, Verse 10

जित्वारीन्क्षत्रधर्मेण प्राप्य राज्यमकण्टकम्

विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव

Mahabharata

Shanti Parva, Adhyaya 22, Verse 11

इन्द्रो वै ब्रह्मणः पुत्रः कर्मणा क्षत्रियोऽभवत्

ज्ञातीनां पापवृत्तीनां जघान नवतीर्नव

Mahabharata

Shanti Parva, Adhyaya 22, Verse 12

तच्चास्य कर्म पूज्यं हि प्रशस्यं च विशां पते

तेन चेन्द्रत्वमापेदे देवानामिति नः श्रुतम्

Mahabharata

Shanti Parva, Adhyaya 22, Verse 13

स त्वं यज्ञैर्महाराज यजस्व बहुदक्षिणैः

यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः

Mahabharata

Shanti Parva, Adhyaya 22, Verse 14

मा त्वमेवंगते किंचित्क्षत्रियर्षभ शोचिथाः

गतास्ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम्

Mahabharata

Shanti Parva, Adhyaya 22, Verse 15

भवितव्यं तथा तच्च यद्वृत्तं भरतर्षभ

दिष्टं हि राजशार्दूल न शक्यमतिवर्तितुम्