Mahabharata

Shanti Parva, Adhyaya 21

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 21, Verse 1

अत्रैवोदाहरन्तीममितिहासं पुरातनम्

इन्द्रेण समये पृष्टो यदुवाच बृहस्पतिः

Mahabharata

Shanti Parva, Adhyaya 21, Verse 2

संतोषो वै स्वर्गतमः संतोषः परमं सुखम्

तुष्टेर्न किंचित्परतः सुसम्यक्परितिष्ठति

Mahabharata

Shanti Parva, Adhyaya 21, Verse 3

यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः

तदात्मज्योतिरात्मैव स्वात्मनैव प्रसीदति

Mahabharata

Shanti Parva, Adhyaya 21, Verse 4

न बिभेति यदा चायं यदा चास्मान्न बिभ्यति

कामद्वेषौ च जयति तदात्मानं प्रपश्यति

Mahabharata

Shanti Parva, Adhyaya 21, Verse 5

यदासौ सर्वभूतानां न क्रुध्यति न दुष्यति

कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा

Mahabharata

Shanti Parva, Adhyaya 21, Verse 6

एवं कौन्तेय भूतानि तं तं धर्मं तथा तथा

तदा तदा प्रपश्यन्ति तस्माद्बुध्यस्व भारत

Mahabharata

Shanti Parva, Adhyaya 21, Verse 7

अन्ये शमं प्रशंसन्ति व्यायाममपरे तथा

नैकं न चापरं केचिदुभयं च तथापरे

Mahabharata

Shanti Parva, Adhyaya 21, Verse 8

यज्ञमेके प्रशंसन्ति संन्यासमपरे जनाः

दानमेके प्रशंसन्ति केचिदेव प्रतिग्रहम्

केचित्सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते

Mahabharata

Shanti Parva, Adhyaya 21, Verse 9

राज्यमेके प्रशंसन्ति सर्वेषां परिपालनम्

हत्वा भित्त्वा च छित्त्वा च केचिदेकान्तशीलिनः

Mahabharata

Shanti Parva, Adhyaya 21, Verse 10

एतत्सर्वं समालोक्य बुधानामेष निश्चयः

अद्रोहेणैव भूतानां यो धर्मः स सतां मतः

Mahabharata

Shanti Parva, Adhyaya 21, Verse 11

अद्रोहः सत्यवचनं संविभागो धृतिः क्षमा

प्रजनः स्वेषु दारेषु मार्दवं ह्रीरचापलम्

Mahabharata

Shanti Parva, Adhyaya 21, Verse 12

धनं धर्मप्रधानेष्टं मनुः स्वायंभुवोऽब्रवीत्

तस्मादेवं प्रयत्नेन कौन्तेय परिपालय

Mahabharata

Shanti Parva, Adhyaya 21, Verse 13

यो हि राज्ये स्थितः शश्वद्वशी तुल्यप्रियाप्रियः

क्षत्रियो यज्ञशिष्टाशी राजशास्त्रार्थतत्त्ववित्

Mahabharata

Shanti Parva, Adhyaya 21, Verse 14

असाधुनिग्रहरतः साधूनां प्रग्रहे रतः

धर्मे वर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मवित्

Mahabharata

Shanti Parva, Adhyaya 21, Verse 15

पुत्रसंक्रामितश्रीस्तु वने वन्येन वर्तयन्

विधिना श्रामणेनैव कुर्यात्कालमतन्द्रितः

Mahabharata

Shanti Parva, Adhyaya 21, Verse 16

य एवं वर्तते राजा राजधर्मविनिश्चितः

तस्यायं च परश्चैव लोकः स्यात्सफलो नृप

निर्वाणं तु सुदुष्पारं बहुविघ्नं च मे मतम्

Mahabharata

Shanti Parva, Adhyaya 21, Verse 17

एवं धर्ममनुक्रान्ताः सत्यदानतपःपराः

आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः

Mahabharata

Shanti Parva, Adhyaya 21, Verse 18

प्रजानां पालने युक्ता दममुत्तममास्थिताः

गोब्राह्मणार्थं युद्धेन संप्राप्ता गतिमुत्तमाम्

Mahabharata

Shanti Parva, Adhyaya 21, Verse 19

एवं रुद्राः सवसवस्तथादित्याः परंतप

साध्या राजर्षिसंघाश्च धर्ममेतं समाश्रिताः

अप्रमत्तास्ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः