Shanti Parva, Adhyaya 20, Verse 1
तस्मिन्वाक्यान्तरे वक्ता देवस्थानो महातपाः
अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम्
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्मिन्वाक्यान्तरे वक्ता देवस्थानो महातपाः
अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम्
यद्वचः फल्गुनेनोक्तं न ज्यायोऽस्ति धनादिति
अत्र ते वर्तयिष्यामि तदेकाग्रमनाः शृणु
अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता
तां जित्वा न वृथा राजंस्त्वं परित्यक्तुमर्हसि
चतुष्पदी हि निःश्रेणी कर्मण्येषा प्रतिष्ठिता
तां क्रमेण महाबाहो यथावज्जय पार्थिव
तस्मात्पार्थ महायज्ञैर्यजस्व बहुदक्षिणैः
स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे
कर्मनिष्ठांस्तु बुध्येथास्तपोनिष्ठांश्च भारत
वैखानसानां राजेन्द्र वचनं श्रूयते यथा
ईहते धनहेतोर्यस्तस्यानीहा गरीयसी
भूयान्दोषः प्रवर्धेत यस्तं धनमपाश्रयेत्
कृच्छ्राच्च द्रव्यसंहारं कुर्वन्ति धनकारणात्
धनेन तृषितोऽबुद्ध्या भ्रूणहत्यां न बुध्यते
अनर्हते यद्ददाति न ददाति यदर्हते
अनर्हार्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः
यज्ञाय सृष्टानि धनानि धात्रा; यष्टादिष्टः पुरुषो रक्षिता च
तस्मात्सर्वं यज्ञ एवोपयोज्यं; धनं ततोऽनन्तर एव कामः
यज्ञैरिन्द्रो विविधैरन्नवद्भि;र्देवान्सर्वानभ्ययान्महौजाः
तेनेन्द्रत्वं प्राप्य विभ्राजतेऽसौ; तस्माद्यज्ञे सर्वमेवोपयोज्यम्
महादेवः सर्वमेधे महात्मा; हुत्वात्मानं देवदेवो विभूतः
विश्वाँल्लोकान्व्याप्य विष्टभ्य कीर्त्या; विरोचते द्युतिमान्कृत्तिवासाः
आविक्षितः पार्थिवो वै मरुत्तः; स्वृद्ध्या मर्त्यो योऽजयद्देवराजम्
यज्ञे यस्य श्रीः स्वयं संनिविष्टा; यस्मिन्भाण्डं काञ्चनं सर्वमासीत्
हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस्ते; यज्ञैरिष्ट्वा पुण्यकृद्वीतशोकः
ऋद्ध्या शक्रं योऽजयन्मानुषः सं;स्तस्माद्यज्ञे सर्वमेवोपयोज्यम्