Mahabharata

Adi Parva, Adhyaya 202

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 202, Verse 1

उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ

मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा

Mahabharata

Adi Parva, Adhyaya 202, Verse 2

सुहृद्भिरभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः

कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा

Mahabharata

Adi Parva, Adhyaya 202, Verse 3

गदापट्टिशधारिण्या शूलमुद्गरहस्तया

प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया

Mahabharata

Adi Parva, Adhyaya 202, Verse 4

मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः

चारणैः स्तूयमानौ तु जग्मतुः परया मुदा

Mahabharata

Adi Parva, Adhyaya 202, Verse 5

तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ

देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ

Mahabharata

Adi Parva, Adhyaya 202, Verse 6

तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः

हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः

Mahabharata

Adi Parva, Adhyaya 202, Verse 7

ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा

खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ

Mahabharata

Adi Parva, Adhyaya 202, Verse 8

अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ

समुद्रवासिनः सर्वान्म्लेच्छजातीन्विजिग्यतुः

Mahabharata

Adi Parva, Adhyaya 202, Verse 9

ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ

सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः

Mahabharata

Adi Parva, Adhyaya 202, Verse 10

राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः

तेजो बलं च देवानां वर्धयन्ति श्रियं तथा

Mahabharata

Adi Parva, Adhyaya 202, Verse 11

तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम्

संभूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः

Mahabharata

Adi Parva, Adhyaya 202, Verse 12

एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः

क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम्

Mahabharata

Adi Parva, Adhyaya 202, Verse 13

यज्ञैर्यजन्ते ये केचिद्याजयन्ति च ये द्विजाः

तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा

Mahabharata

Adi Parva, Adhyaya 202, Verse 14

आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम्

गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः

Mahabharata

Adi Parva, Adhyaya 202, Verse 15

तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः

नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः

Mahabharata

Adi Parva, Adhyaya 202, Verse 16

नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव

नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः

Mahabharata

Adi Parva, Adhyaya 202, Verse 17

पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः

तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः

Mahabharata

Adi Parva, Adhyaya 202, Verse 18

मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः

शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा

Mahabharata

Adi Parva, Adhyaya 202, Verse 19

राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ

उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ

Mahabharata

Adi Parva, Adhyaya 202, Verse 20

प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ

संलीनानपि दुर्गेषु निन्यतुर्यमसादनम्

Mahabharata

Adi Parva, Adhyaya 202, Verse 21

सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ

तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः

Mahabharata

Adi Parva, Adhyaya 202, Verse 22

निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा

उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा

Mahabharata

Adi Parva, Adhyaya 202, Verse 23

हाहाभूता भयार्ता च निवृत्तविपणापणा

निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता

Mahabharata

Adi Parva, Adhyaya 202, Verse 24

निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा

अस्थिकङ्कालसंकीर्णा भूर्बभूवोग्रदर्शना

Mahabharata

Adi Parva, Adhyaya 202, Verse 25

निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम्

जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा

Mahabharata

Adi Parva, Adhyaya 202, Verse 26

चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः

जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः

Mahabharata

Adi Parva, Adhyaya 202, Verse 27

एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा

निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः