Shanti Parva, Adhyaya 17, Verse 1
असंतोषः प्रमादश्च मदो रागोऽप्रशान्तता
बलं मोहोऽभिमानश्च उद्वेगश्चापि सर्वशः
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
असंतोषः प्रमादश्च मदो रागोऽप्रशान्तता
बलं मोहोऽभिमानश्च उद्वेगश्चापि सर्वशः
एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसि
निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव
य इमामखिलां भूमिं शिष्यादेको महीपतिः
तस्याप्युदरमेवैकं किमिदं त्वं प्रशंससि
नाह्ना पूरयितुं शक्या न मासेन नरर्षभ
अपूर्यां पूरयन्निच्छामायुषापि न शक्नुयात्
यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति
अल्पाहारतया त्वग्निं शमयौदर्यमुत्थितम्
जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम्
मानुषान्कामभोगांस्त्वमैश्वर्यं च प्रशंससि
अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम्
योगक्षेमौ च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ
मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय
एकोदरकृते व्याघ्रः करोति विघसं बहु
तमन्येऽप्युपजीवन्ति मन्दवेगंचरा मृगाः
विषयान्प्रतिसंहृत्य संन्यासं कुरुते यतिः
न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा
पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा
अब्भक्षैर्वायुभक्षैश्च तैरयं नरको जितः
यश्चेमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः
तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः
संकल्पेषु निरारम्भो निराशो निर्ममो भव
विशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम्
निरामिषा न शोचन्ति शोचसि त्वं किमामिषम्
परित्यज्यामिषं सर्वं मृषावादात्प्रमोक्ष्यसे
पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ
ईजानाः पितृयानेन देवयानेन मोक्षिणः
तपसा ब्रह्मचर्येण स्वाध्यायेन च पाविताः
विमुच्य देहान्वै भान्ति मृत्योरविषयं गताः
आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम्
ताभ्यां विमुक्तः पाशाभ्यां पदमाप्नोति तत्परम्
अपि गाथामिमां गीतां जनकेन वदन्त्युत
निर्द्वंद्वेन विमुक्तेन मोक्षं समनुपश्यता
अनन्तं बत मे वित्तं यस्य मे नास्ति किंचन
मिथिलायां प्रदीप्तायां न मे दह्यति किंचन
प्रज्ञाप्रासादमारुह्य नशोच्याञ्शोचतो जनान्
जगतीस्थानिवाद्रिस्थो मन्दबुद्धीनवेक्षते
दृश्यं पश्यति यः पश्यन्स चक्षुष्मान्स बुद्धिमान्
अज्ञातानां च विज्ञानात्संबोधाद्बुद्धिरुच्यते
यस्तु वाचं विजानाति बहुमानमियात्स वै
ब्रह्मभावप्रसूतानां वैद्यानां भावितात्मनाम्
यदा भूतपृथग्भावमेकस्थमनुपश्यति
तत एव च विस्तारं ब्रह्म संपद्यते तदा
ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः
नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम्