Shanti Parva, Adhyaya 16, Verse 1
अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः
धैर्यमास्थाय तेजस्वी ज्येष्ठं भ्रातरमब्रवीत्
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः
धैर्यमास्थाय तेजस्वी ज्येष्ठं भ्रातरमब्रवीत्
राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि
उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः
न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम्
अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप
भवतस्तु प्रमोहेन सर्वं संशयितं कृतम्
विक्लवत्वं च नः प्राप्तमबलत्वं तथैव च
कथं हि राजा लोकस्य सर्वशास्त्रविशारदः
मोहमापद्यते दैन्याद्यथा कुपुरुषस्तथा
आगतिश्च गतिश्चैव लोकस्य विदिता तव
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो
एवं गते महाराज राज्यं प्रति जनाधिप
हेतुमत्र प्रवक्ष्यामि तदिहैकमनाः शृणु
द्विविधो जायते व्याधिः शारीरो मानसस्तथा
परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते
शारीराज्जायते व्याधिर्मानसो नात्र संशयः
मानसाज्जायते व्याधिः शारीर इति निश्चयः
शारीरमानसे दुःखे योऽतीते अनुशोचति
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते
शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः
तेषां गुणानां साम्यं च तदाहुः स्वस्थलक्षणम्
तेषामन्यतमोत्सेके विधानमुपदिष्यते
उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते
सत्त्वं रजस्तमश्चैव मानसाः स्युस्त्रयो गुणाः
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति
स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च
न दुःखी सुखजातस्य न सुखी दुःखजस्य वा
स्मर्तुमर्हसि कौरव्य दिष्टं तु बलवत्तरम्
अथ वा ते स्वभावोऽयं येन पार्थिव कृष्यसे
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम्
मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि
प्रव्राजनं च नगरादजिनैश्च निवासनम्
महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि
जटासुरात्परिक्लेशं चित्रसेनेन चाहवम्
सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि
पुनरज्ञातचर्यायां कीचकेन पदा वधम्
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम
मनसैकेन ते युद्धमिदं घोरमुपस्थितम्
यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्
तस्मिन्ननिर्जिते युद्धे प्राणान्यदि ह मोक्ष्यसे
अन्यं देहं समास्थाय पुनस्तेनैव योत्स्यसे
तस्मादद्यैव गन्तव्यं युद्धस्य भरतर्षभ
एतज्जित्वा महाराज कृतकृत्यो भविष्यसि
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम्
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम्
दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि
द्रौपद्याः केशपक्षस्य दिष्ट्या त्वं पदवीं गतः
यजस्व वाजिमेधेन विधिवद्दक्षिणावता
वयं ते किंकराः पार्थ वासुदेवश्च वीर्यवान्