Shanti Parva, Adhyaya 14, Verse 1
अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे
भ्रातॄणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान्
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे
भ्रातॄणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान्
महाभिजनसंपन्ना श्रीमत्यायतलोचना
अभ्यभाषत राजेन्द्रं द्रौपदी योषितां वरा
आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम्
सिंहशार्दूलसदृशैर्वारणैरिव यूथपम्
अभिमानवती नित्यं विशेषेण युधिष्ठिरे
लालिता सततं राज्ञा धर्मज्ञा धर्मदर्शिनी
आमन्त्र्य विपुलश्रोणी साम्ना परमवल्गुना
भर्तारमभिसंप्रेक्ष्य ततो वचनमब्रवीत्
इमे ते भ्रातरः पार्थ शुष्यन्त स्तोकका इव
वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे
नन्दयैतान्महाराज मत्तानिव महाद्विपान्
उपपन्नेन वाक्येन सततं दुःखभागिनः
कथं द्वैतवने राजन्पूर्वमुक्त्वा तथा वचः
भ्रातॄनेतान्स्म सहिताञ्शीतवातातपार्दितान्
वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम्
संपूर्णां सर्वकामानामाहवे विजयैषिणः
विरथांश्च रथान्कृत्वा निहत्य च महागजान्
संस्तीर्य च रथैर्भूमिं ससादिभिररिंदमाः
यजतां विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः
वनवासकृतं दुःखं भविष्यति सुखाय नः
इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर
कथमद्य पुनर्वीर विनिहंसि मनांस्युत
न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते
न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते
नादण्डः क्षत्रियो भाति नादण्डो भूतिमश्नुते
नादण्डस्य प्रजा राज्ञः सुखमेधन्ति भारत
मित्रता सर्वभूतेषु दानमध्ययनं तपः
ब्राह्मणस्यैष धर्मः स्यान्न राज्ञो राजसत्तम
असतां प्रतिषेधश्च सतां च परिपालनम्
एष राज्ञां परो धर्मः समरे चापलायनम्
यस्मिन्क्षमा च क्रोधश्च दानादाने भयाभये
निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते
न श्रुतेन न दानेन न सान्त्वेन न चेज्यया
त्वयेयं पृथिवी लब्धा नोत्कोचेन तथाप्युत
यत्तद्बलममित्राणां तथा वीरसमुद्यतम्
हस्त्यश्वरथसंपन्नं त्रिभिरङ्गैर्महत्तरम्
रक्षितं द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च
तत्त्वया निहतं वीर तस्माद्भुङ्क्ष्व वसुंधराम्
जम्बूद्वीपो महाराज नानाजनपदायुतः
त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो
जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप
अपरेण महामेरोर्दण्डेन मृदितस्त्वया
क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप
पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया
उत्तरेण महामेरोः शाकद्वीपेन संमितः
भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया
द्वीपाश्च सान्तरद्वीपा नानाजनपदालयाः
विगाह्य सागरं वीर दण्डेन मृदितास्त्वया
एतान्यप्रतिमानि त्वं कृत्वा कर्माणि भारत
न प्रीयसे महाराज पूज्यमानो द्विजातिभिः
स त्वं भ्रातॄनिमान्दृष्ट्वा प्रतिनन्दस्व भारत
ऋषभानिव संमत्तान्गजेन्द्रानूर्जितानिव
अमरप्रतिमाः सर्वे शत्रुसाहाः परंतपाः
एकोऽपि हि सुखायैषां क्षमः स्यादिति मे मतिः
किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः
समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने
अनृतं माब्रवीच्छ्वश्रूः सर्वज्ञा सर्वदर्शिनी
युधिष्ठिरस्त्वां पाञ्चालि सुखे धास्यत्यनुत्तमे