Mahabharata

Shanti Parva, Adhyaya 12

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 12, Verse 1

अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत्

राजानमभिसंप्रेक्ष्य सर्वधर्मभृतां वरम्

Mahabharata

Shanti Parva, Adhyaya 12, Verse 2

अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिंदमः

व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता

Mahabharata

Shanti Parva, Adhyaya 12, Verse 3

विशाखयूपे देवानां सर्वेषामग्नयश्चिताः

तस्माद्विद्धि महाराज देवान्कर्मपथि स्थितान्

Mahabharata

Shanti Parva, Adhyaya 12, Verse 4

अनास्तिकानास्तिकानां प्राणदाः पितरश्च ये

तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव

वेदवादापविद्धांस्तु तान्विद्धि भृशनास्तिकान्

Mahabharata

Shanti Parva, Adhyaya 12, Verse 5

न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु

देवयानेन नाकस्य पृष्ठमाप्नोति भारत

Mahabharata

Shanti Parva, Adhyaya 12, Verse 6

अत्याश्रमानयं सर्वानित्याहुर्वेदनिश्चयाः

ब्राह्मणाः श्रुतिसंपन्नास्तान्निबोध जनाधिप

Mahabharata

Shanti Parva, Adhyaya 12, Verse 7

वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन्

कृतात्मसु महाराज स वै त्यागी स्मृतो नरः

Mahabharata

Shanti Parva, Adhyaya 12, Verse 8

अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः

आत्मत्यागी महाराज स त्यागी तामसः प्रभो

Mahabharata

Shanti Parva, Adhyaya 12, Verse 9

अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः

अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः

Mahabharata

Shanti Parva, Adhyaya 12, Verse 10

क्रोधहर्षावनादृत्य पैशुन्यं च विशां पते

विप्रो वेदानधीते यः स त्यागी गुरुपूजकः

Mahabharata

Shanti Parva, Adhyaya 12, Verse 11

आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः

एकतस्ते त्रयो राजन्गृहस्थाश्रम एकतः

Mahabharata

Shanti Parva, Adhyaya 12, Verse 12

समीक्षते तु योऽर्थं वै कामं स्वर्गं च भारत

अयं पन्था महर्षीणामियं लोकविदां गतिः

Mahabharata

Shanti Parva, Adhyaya 12, Verse 13

इति यः कुरुते भावं स त्यागी भरतर्षभ

न यः परित्यज्य गृहान्वनमेति विमूढवत्

Mahabharata

Shanti Parva, Adhyaya 12, Verse 14

यदा कामान्समीक्षेत धर्मवैतंसिकोऽनृजुः

अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराट्

Mahabharata

Shanti Parva, Adhyaya 12, Verse 15

अभिमानकृतं कर्म नैतत्फलवदुच्यते

त्यागयुक्तं महाराज सर्वमेव महाफलम्

Mahabharata

Shanti Parva, Adhyaya 12, Verse 16

शमो दमस्तपो दानं सत्यं शौचमथार्जवम्

यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः

Mahabharata

Shanti Parva, Adhyaya 12, Verse 17

पितृदेवातिथिकृते समारम्भोऽत्र शस्यते

अत्रैव हि महाराज त्रिवर्गः केवलं फलम्

Mahabharata

Shanti Parva, Adhyaya 12, Verse 18

एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते

त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित्

Mahabharata

Shanti Parva, Adhyaya 12, Verse 19

असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः

मां यक्ष्यन्तीति शान्तात्मा यज्ञैर्विविधदक्षिणैः

Mahabharata

Shanti Parva, Adhyaya 12, Verse 20

वीरुधश्चैव वृक्षांश्च यज्ञार्थं च तथौषधीः

पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च

Mahabharata

Shanti Parva, Adhyaya 12, Verse 21

गृहस्थाश्रमिणस्तच्च यज्ञकर्म विरोधकम्

तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा

Mahabharata

Shanti Parva, Adhyaya 12, Verse 22

तत्संप्राप्य गृहस्था ये पशुधान्यसमन्विताः

न यजन्ते महाराज शाश्वतं तेषु किल्बिषम्

Mahabharata

Shanti Parva, Adhyaya 12, Verse 23

स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे

अथापरे महायज्ञान्मनसैव वितन्वते

Mahabharata

Shanti Parva, Adhyaya 12, Verse 24

एवं दानसमाधानं मार्गमातिष्ठतो नृप

द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः

Mahabharata

Shanti Parva, Adhyaya 12, Verse 25

स रत्नानि विचित्राणि संभृतानि ततस्ततः

मखेष्वनभिसंत्यज्य नास्तिक्यमभिजल्पसि

कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप

Mahabharata

Shanti Parva, Adhyaya 12, Verse 26

राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः

य चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः

तैर्यजस्व महाराज शक्रो देवपतिर्यथा

Mahabharata

Shanti Parva, Adhyaya 12, Verse 27

राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम्

अशरण्यः प्रजानां यः स राजा कलिरुच्यते

Mahabharata

Shanti Parva, Adhyaya 12, Verse 28

अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलंकृताः

ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च

Mahabharata

Shanti Parva, Adhyaya 12, Verse 29

अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः

वयं ते राजकलयो भविष्यामो विशां पते

Mahabharata

Shanti Parva, Adhyaya 12, Verse 30

अदातारोऽशरण्याश्च राजकिल्बिषभागिनः

दुःखानामेव भोक्तारो न सुखानां कदाचन