Mahabharata

Shanti Parva, Adhyaya 11

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 11, Verse 1

अत्रैवोदाहरन्तीममितिहासं पुरातनम्

तापसैः सह संवादं शक्रस्य भरतर्षभ

Mahabharata

Shanti Parva, Adhyaya 11, Verse 2

केचिद्गृहान्परित्यज्य वनमभ्यगमन्द्विजाः

अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः

Mahabharata

Shanti Parva, Adhyaya 11, Verse 3

धर्मोऽयमिति मन्वाना ब्रह्मचर्ये व्यवस्थिताः

त्यक्त्वा गृहान्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत

Mahabharata

Shanti Parva, Adhyaya 11, Verse 4

तानाबभाषे भगवान्पक्षी भूत्वा हिरण्मयः

सुदुष्करं मनुष्यैश्च यत्कृतं विघसाशिभिः

Mahabharata

Shanti Parva, Adhyaya 11, Verse 5

पुण्यं च बत कर्मैषां प्रशस्तं चैव जीवितम्

संसिद्धास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः

Mahabharata

Shanti Parva, Adhyaya 11, Verse 6

अहो बतायं शकुनिर्विघसाशान्प्रशंसति

अस्मान्नूनमयं शास्ति वयं च विघसाशिनः

Mahabharata

Shanti Parva, Adhyaya 11, Verse 7

नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान्

उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः

Mahabharata

Shanti Parva, Adhyaya 11, Verse 8

इदं श्रेयः परमिति वयमेवाभ्युपास्महे

शकुने ब्रूहि यच्छ्रेयो भृशं वै श्रद्दधाम ते

Mahabharata

Shanti Parva, Adhyaya 11, Verse 9

यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना

ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः

Mahabharata

Shanti Parva, Adhyaya 11, Verse 10

शृणुमस्ते वचस्तात पन्थानो विदितास्तव

नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः

Mahabharata

Shanti Parva, Adhyaya 11, Verse 11

चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम्

शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः

Mahabharata

Shanti Parva, Adhyaya 11, Verse 12

मन्त्रोऽयं जातकर्मादि ब्राह्मणस्य विधीयते

जीवतो यो यथाकालं श्मशाननिधनादिति

Mahabharata

Shanti Parva, Adhyaya 11, Verse 13

कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः

अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते

Mahabharata

Shanti Parva, Adhyaya 11, Verse 14

आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते

मासार्धमासा ऋतव आदित्यशशितारकम्

Mahabharata

Shanti Parva, Adhyaya 11, Verse 15

ईहन्ते सर्वभूतानि तदृतं कर्मसङ्गिनाम्

सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान्

Mahabharata

Shanti Parva, Adhyaya 11, Verse 16

अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः

मूढानामर्थहीनानां तेषामेनस्तु विद्यते

Mahabharata

Shanti Parva, Adhyaya 11, Verse 17

देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान्

संत्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम्

Mahabharata

Shanti Parva, Adhyaya 11, Verse 18

एतद्वोऽस्तु तपो युक्तं ददानीत्यृषिचोदितम्

तस्मात्तदध्यवसतस्तपस्वि तप उच्यते

Mahabharata

Shanti Parva, Adhyaya 11, Verse 19

देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान्

संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते

Mahabharata

Shanti Parva, Adhyaya 11, Verse 20

देवा वै दुष्करं कृत्वा विभूतिं परमां गताः

तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः

Mahabharata

Shanti Parva, Adhyaya 11, Verse 21

तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः

कुटुम्बविधिनानेन यस्मिन्सर्वं प्रतिष्ठितम्

Mahabharata

Shanti Parva, Adhyaya 11, Verse 22

एतद्विदुस्तपो विप्रा द्वंद्वातीता विमत्सराः

तस्माद्वनं मध्यमं च लोकेषु तप उच्यते

Mahabharata

Shanti Parva, Adhyaya 11, Verse 23

दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः

सायंप्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि

Mahabharata

Shanti Parva, Adhyaya 11, Verse 24

दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च

अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः

Mahabharata

Shanti Parva, Adhyaya 11, Verse 25

तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः

लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः

Mahabharata

Shanti Parva, Adhyaya 11, Verse 26

त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः

वसन्ति शाश्वतीर्वर्षा जना दुष्करकारिणः

Mahabharata

Shanti Parva, Adhyaya 11, Verse 27

ततस्ते तद्वचः श्रुत्वा तस्य धर्मार्थसंहितम्

उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्ममाश्रिताः

Mahabharata

Shanti Parva, Adhyaya 11, Verse 28

तस्मात्त्वमपि दुर्धर्ष धैर्यमालम्ब्य शाश्वतम्

प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम