Mahabharata

Shanti Parva, Adhyaya 10

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 10, Verse 1

श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः

अनुवाकहताबुद्धिर्नैषा तत्त्वार्थदर्शिनी

Mahabharata

Shanti Parva, Adhyaya 10, Verse 2

आलस्ये कृतचित्तस्य राजधर्मानसूयतः

विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ

Mahabharata

Shanti Parva, Adhyaya 10, Verse 3

क्षमानुकम्पा कारुण्यमानृशंस्यं न विद्यते

क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे

Mahabharata

Shanti Parva, Adhyaya 10, Verse 4

यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम्

शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कंचन

Mahabharata

Shanti Parva, Adhyaya 10, Verse 5

भैक्ष्यमेवाचरिष्याम शरीरस्या विमोक्षणात्

न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम्

Mahabharata

Shanti Parva, Adhyaya 10, Verse 6

प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः

स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम्

Mahabharata

Shanti Parva, Adhyaya 10, Verse 7

आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः

हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः

Mahabharata

Shanti Parva, Adhyaya 10, Verse 8

ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः

तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम्

Mahabharata

Shanti Parva, Adhyaya 10, Verse 9

यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम्

पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम्

Mahabharata

Shanti Parva, Adhyaya 10, Verse 10

यथारुह्य महावृक्षमपहृत्य ततो मधु

अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम्

Mahabharata

Shanti Parva, Adhyaya 10, Verse 11

यथा महान्तमध्वानमाशया पुरुषः पतन्

स निराशो निवर्तेत कर्मेदं नस्तथोपमम्

Mahabharata

Shanti Parva, Adhyaya 10, Verse 12

यथा शत्रून्घातयित्वा पुरुषः कुरुसत्तम

आत्मानं घातयेत्पश्चात्कर्मेदं नस्तथाविधम्

Mahabharata

Shanti Parva, Adhyaya 10, Verse 13

यथान्नं क्षुधितो लब्ध्वा न भुञ्जीत यदृच्छया

कामी च कामिनीं लब्ध्वा कर्मेदं नस्तथाविधम्

Mahabharata

Shanti Parva, Adhyaya 10, Verse 14

वयमेवात्र गर्ह्या हि ये वयं मन्दचेतसः

त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत

Mahabharata

Shanti Parva, Adhyaya 10, Verse 15

वयं हि बाहुबलिनः कृतविद्या मनस्विनः

क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा

Mahabharata

Shanti Parva, Adhyaya 10, Verse 16

अगतीन्कागतीनस्मान्नष्टार्थानर्थसिद्धये

कथं वै नानुपश्येयुर्जनाः पश्यन्ति यादृशम्

Mahabharata

Shanti Parva, Adhyaya 10, Verse 17

आपत्काले हि संन्यासः कर्तव्य इति शिष्यते

जरयाभिपरीतेन शत्रुभिर्व्यंसितेन च

Mahabharata

Shanti Parva, Adhyaya 10, Verse 18

तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते

धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः

Mahabharata

Shanti Parva, Adhyaya 10, Verse 19

कथं तस्मात्समुत्पन्नस्तन्निष्ठस्तदुपाश्रयः

तदेव निन्दन्नासीत श्रद्धा वान्यत्र गृह्यते

Mahabharata

Shanti Parva, Adhyaya 10, Verse 20

श्रिया विहीनैरधनैर्नास्तिकैः संप्रवर्तितम्

वेदवादस्य विज्ञानं सत्याभासमिवानृतम्

Mahabharata

Shanti Parva, Adhyaya 10, Verse 21

शक्यं तु मौण्ड्यमास्थाय बिभ्रतात्मानमात्मना

धर्मच्छद्म समास्थाय आसितुं न तु जीवितुम्

Mahabharata

Shanti Parva, Adhyaya 10, Verse 22

शक्यं पुनररण्येषु सुखमेकेन जीवितुम्

अबिभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन्

Mahabharata

Shanti Parva, Adhyaya 10, Verse 23

नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः

अथैतेन प्रकारेण पुण्यमाहुर्न ताञ्जनाः

Mahabharata

Shanti Parva, Adhyaya 10, Verse 24

यदि संन्यासतः सिद्धिं राजन्कश्चिदवाप्नुयात्

पर्वताश्च द्रुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः

Mahabharata

Shanti Parva, Adhyaya 10, Verse 25

एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः

अपरिग्रहवन्तश्च सततं चात्मचारिणः

Mahabharata

Shanti Parva, Adhyaya 10, Verse 26

अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते

तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः

Mahabharata

Shanti Parva, Adhyaya 10, Verse 27

औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः

येषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते

Mahabharata

Shanti Parva, Adhyaya 10, Verse 28

अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत्

तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः