Adi Parva, Adhyaya 201, Verse 1
शृणु मे विस्तरेणेममितिहासं पुरातनम्
भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
शृणु मे विस्तरेणेममितिहासं पुरातनम्
भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर
महासुरस्यान्ववाये हिरण्यकशिपोः पुरा
निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत्
तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ
सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः
अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ
एकशीलसमाचारौ द्विधैवैकं यथा कृतौ
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ
त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम्
कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः
तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ
मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः
आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ
ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ
तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः
धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत्
ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः
तपोविघातार्थमथो देवा विघ्नानि चक्रिरे
रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ
अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः
भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा
परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा
स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः
अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ
यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः
ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत
ततः पितामहः साक्षादभिगम्य महासुरौ
वरेण छन्दयामास सर्वलोकपितामहः
ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ
दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा
आवयोस्तपसानेन यदि प्रीतः पितामहः
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ
उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः
ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति
अन्यद्वृणीतां मृत्योश्च विधानममरैः समम्
करिष्यावेदमिति यन्महदभ्युत्थितं तपः
युवयोर्हेतुनानेन नामरत्वं विधीयते
त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः
हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम्
त्रिषु लोकेषु यद्भूतं किंचित्स्थावरजङ्गमम्
सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह
यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम्
मृत्योर्विधानमेतच्च यथावद्वां भविष्यति
ततः पितामहो दत्त्वा वरमेतत्तदा तयोः
निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह
लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ
अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ
तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ
सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान्
ततस्तौ तु जटा हित्वा मौलिनौ संबभूवतुः
महार्हाभरणोपेतौ विरजोम्बरधारिणौ
अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम्
दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः
भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति
पीयतां दीयतां चेति वाच आसन्गृहे गृहे