Shanti Parva, Adhyaya 8, Verse 1
अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी
अभिनीततरं वाक्यं दृढवादपराक्रमः
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी
अभिनीततरं वाक्यं दृढवादपराक्रमः
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः
स्मयमानो महातेजाः सृक्किणी संलिहन्मुहुः
अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम्
यत्कृत्वामानुषं कर्म त्यजेथाः श्रियमुत्तमाम्
शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम्
हतामित्रः कथं सर्वं त्यजेथा बुद्धिलाघवात्
क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः
किमर्थं च महीपालानवधीः क्रोधमूर्छितः
यो ह्याजिजीविषेद्भैक्ष्यं कर्मणा नैव केनचित्
समारम्भान्बुभूषेत हतस्वस्तिरकिंचनः
सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः
कापालीं नृप पापिष्ठां वृत्तिमास्थाय जीवतः
संत्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति
सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिंचनः
कस्मादाशंससे भैक्ष्यं चर्तुं प्राकृतवत्प्रभो
अस्मिन्राजकुले जातो जित्वा कृत्स्नां वसुंधराम्
धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे
यदीमानि हवींषीह विमथिष्यन्त्यसाधवः
भवता विप्रहीणानि प्राप्तं त्वामेव किल्बिषम्
आकिंचन्यमनाशास्यमिति वै नहुषोऽब्रवीत्
कृत्या नृशंसा ह्यधने धिगस्त्वधनतामिह
अश्वस्तनमृषीणां हि विद्यते वेद तद्भवान्
यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते
धर्मं संहरते तस्य धनं हरति यस्य यः
ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि
अभिशस्तवत्प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम्
दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति
पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते
विशेषं नाधिगच्छामि पतितस्याधनस्य च
अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस्ततस्ततः
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः
अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप
प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः
अधनेनार्थकामेन नार्थः शक्यो विवित्सता
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः
धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप
धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्तते
नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम
नाधनो धर्मकृत्यानि यथावदनुतिष्ठति
धनाद्धि धर्मः स्रवति शैलाद्गिरिनदी यथा
यः कृशाश्वः कृशगवः कृशभृत्यः कृशातिथिः
स वै राजन्कृशो नाम न शरीरकृशः कृशः
अवेक्षस्व यथान्यायं पश्य देवासुरं यथा
राजन्किमन्यज्ज्ञातीनां वधादृध्यन्ति देवताः
न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत्
एतावानेव वेदेषु निश्चयः कविभिः कृतः
अध्येतव्या त्रयी विद्या भवितव्यं विपश्चिता
सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः
द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः
इति देवा व्यवसिता वेदवादाश्च शाश्वताः
अधीयन्ते तपस्यन्ति यजन्ते याजयन्ति च
कृत्स्नं तदेव च श्रेयो यदप्याददतेऽन्यतः
न पश्यामोऽनपहृतं धनं किंचित्क्वचिद्वयम्
एवमेव हि राजानो जयन्ति पृथिवीमिमाम्