Shanti Parva, Adhyaya 7, Verse 1
युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः
शुशोच दुःखसंतप्तः स्मृत्वा कर्णं महारथम्
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः
शुशोच दुःखसंतप्तः स्मृत्वा कर्णं महारथम्
आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः
दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः
यद्भैक्षमाचरिष्याम वृष्ण्यन्धकपुरे वयम्
ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम्
अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल
आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम्
धिगस्त्वमर्षं येनेमामापदं गमिता वयम्
साधु क्षमा दमः शौचमवैरोध्यममत्सरः
अहिंसा सत्यवचनं नित्यानि वनचारिणाम्
वयं तु लोभान्मोहाच्च स्तम्भं मानं च संश्रिताः
इमामवस्थामापन्ना राज्यलेशबुभुक्षया
त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत्
बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः
ते वयं पृथिवीहेतोरवध्यान्पृथिवीसमान्
संपरित्यज्य जीवामो हीनार्था हतबान्धवाः
आमिषे गृध्यमानानामशुनां नः शुनामिव
आमिषं चैव नो नष्टमामिषस्य च भोजिनः
न पृथिव्या सकलया न सुवर्णस्य राशिभिः
न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः
संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः
मृत्युयानं समारुह्य गता वैवस्वतक्षयम्
बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान्
तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया
उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः
लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति
यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि
संभाविता जातबलास्ते दद्युर्यदि नः सुखम्
इह चामुत्र चैवेति कृपणाः फलहेतुकाः
तासामयं समारम्भो निवृत्तः केवलोऽफलः
यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः
अभुक्त्वा पार्थिवान्भोगानृणान्यनवदाय च
पितृभ्यो देवताभ्यश्च गता वैवस्वतक्षयम्
यदैषामङ्ग पितरौ जातौ काममयाविव
संजातबलरूपेषु तदैव निहता नृपाः
संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः
न ते जन्मफलं किंचिद्भोक्तारो जातु कर्हिचित्
पाञ्चालानां कुरूणां च हता एव हि येऽहताः
ते वयं त्वधमाँल्लोकान्प्रपद्येम स्वकर्मभिः
वयमेवास्य लोकस्य विनाशे कारणं स्मृताः
धृतराष्ट्रस्य पुत्रेण निकृत्या प्रत्यपत्स्महि
सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः
मिथ्यावृत्तः स सततमस्मास्वनपकारिषु
अंशकामा वयं ते च न चास्माभिर्न तैर्जितम्
न तैर्भुक्तेयमवनिर्न नार्यो गीतवादितम्
नामात्यसमितौ कथ्यं न च श्रुतवतां श्रुतम्
न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः
ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः
धृतराष्ट्रस्य नृपतेः सौबलेन निवेदितः
तं पिता पुत्रगृद्धित्वादनुमेनेऽनये स्थितम्
अनवेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा
असंशयं धृतराष्ट्रो यथैवाहं तथा गतः
अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम्
पतितो यशसो दीप्ताद्घातयित्वा सहोदरान्
इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुयोधनः
अस्मत्प्रद्वेषसंयुक्तः पापबुद्धिः सदैव हि
को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने
यथासावुक्तवान्क्षुद्रो युयुत्सुर्वृष्णिसंनिधौ
आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः
प्रदहन्तो दिशः सर्वास्तेजसा भास्करा इव