Mahabharata

Shanti Parva, Adhyaya 6

Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 6, Verse 1

एतावदुक्त्वा देवर्षिर्विरराम स नारदः

युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः

Mahabharata

Shanti Parva, Adhyaya 6, Verse 2

तं दीनमनसं वीरमधोवदनमातुरम्

निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा

Mahabharata

Shanti Parva, Adhyaya 6, Verse 3

कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना

अब्रवीन्मधुराभाषा काले वचनमर्थवत्

Mahabharata

Shanti Parva, Adhyaya 6, Verse 4

युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि

जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम

Mahabharata

Shanti Parva, Adhyaya 6, Verse 5

यतितः स मया पूर्वं भ्रात्र्यं ज्ञापयितुं तव

भास्करेण च देवेन पित्रा धर्मभृतां वर

Mahabharata

Shanti Parva, Adhyaya 6, Verse 6

यद्वाच्यं हितकामेन सुहृदा भूतिमिच्छता

तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः

Mahabharata

Shanti Parva, Adhyaya 6, Verse 7

न चैनमशकद्भानुरहं वा स्नेहकारणैः

पुरा प्रत्यनुनेतुं वा नेतुं वाप्येकतां त्वया

Mahabharata

Shanti Parva, Adhyaya 6, Verse 8

ततः कालपरीतः स वैरस्योद्धुक्षणे रतः

प्रतीपकारी युष्माकमिति चोपेक्षितो मया

Mahabharata

Shanti Parva, Adhyaya 6, Verse 9

इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः

उवाच वाक्यं धर्मात्मा शोकव्याकुलचेतनः

Mahabharata

Shanti Parva, Adhyaya 6, Verse 10

भवत्या गूढमन्त्रत्वात्पीडितोऽस्मीत्युवाच ताम्

शशाप च महातेजाः सर्वलोकेषु च स्त्रियः

न गुह्यं धारयिष्यन्तीत्यतिदुःखसमन्वितः

Mahabharata

Shanti Parva, Adhyaya 6, Verse 11

स राजा पुत्रपौत्राणां संबन्धिसुहृदां तथा

स्मरन्नुद्विग्नहृदयो बभूवास्वस्थचेतनः

Mahabharata

Shanti Parva, Adhyaya 6, Verse 12

ततः शोकपरीतात्मा सधूम इव पावकः

निर्वेदमकरोद्धीमान्राजा संतापपीडितः