Mahabharata

Shanti Parva, Adhyaya 5

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 5, Verse 1

आविष्कृतबलं कर्णं ज्ञात्वा राजा तु मागधः

आह्वयद्द्वैरथेनाजौ जरासंधो महीपतिः

Mahabharata

Shanti Parva, Adhyaya 5, Verse 2

तयोः समभवद्युद्धं दिव्यास्त्रविदुषोर्द्वयोः

युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः

Mahabharata

Shanti Parva, Adhyaya 5, Verse 3

क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ

बाहुभिः समसज्जेतामुभावपि बलान्वितौ

Mahabharata

Shanti Parva, Adhyaya 5, Verse 4

बाहुकण्टकयुद्धेन तस्य कर्णोऽथ युध्यतः

बिभेद संधिं देहस्य जरया श्लेषितस्य ह

Mahabharata

Shanti Parva, Adhyaya 5, Verse 5

स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः

प्रीतोऽस्मीत्यब्रवीत्कर्णं वैरमुत्सृज्य भारत

Mahabharata

Shanti Parva, Adhyaya 5, Verse 6

प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ

अङ्गेषु नरशार्दूल स राजासीत्सपत्नजित्

Mahabharata

Shanti Parva, Adhyaya 5, Verse 7

पालयामास चम्पां तु कर्णः परबलार्दनः

दुर्योधनस्यानुमते तवापि विदितं तथा

Mahabharata

Shanti Parva, Adhyaya 5, Verse 8

एवं शस्त्रप्रतापेन प्रथितः सोऽभवत्क्षितौ

त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले

Mahabharata

Shanti Parva, Adhyaya 5, Verse 9

स दिव्ये सहजे प्रादात्कुण्डले परमार्चिते

सहजं कवचं चैव मोहितो देवमायया

Mahabharata

Shanti Parva, Adhyaya 5, Verse 10

विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा

निहतो विजयेनाजौ वासुदेवस्य पश्यतः

Mahabharata

Shanti Parva, Adhyaya 5, Verse 11

ब्राह्मणस्याभिशापेन रामस्य च महात्मनः

कुन्त्याश्च वरदानेन मायया च शतक्रतोः

Mahabharata

Shanti Parva, Adhyaya 5, Verse 12

भीष्मावमानात्संख्यायां रथानामर्धकीर्तनात्

शल्यात्तेजोवधाच्चापि वासुदेवनयेन च

Mahabharata

Shanti Parva, Adhyaya 5, Verse 13

रुद्रस्य देवराजस्य यमस्य वरुणस्य च

कुबेरद्रोणयोश्चैव कृपस्य च महात्मनः

Mahabharata

Shanti Parva, Adhyaya 5, Verse 14

अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना

हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः

Mahabharata

Shanti Parva, Adhyaya 5, Verse 15

एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः

न शोच्यः स नरव्याघ्रो युद्धे हि निधनं गतः