Mahabharata

Shanti Parva, Adhyaya 4

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 4, Verse 1

कर्णस्तु समवाप्यैतदस्त्रं भार्गवनन्दनात्

दुर्योधनेन सहितो मुमुदे भरतर्षभ

Mahabharata

Shanti Parva, Adhyaya 4, Verse 2

ततः कदाचिद्राजानः समाजग्मुः स्वयंवरे

कलिङ्गविषये राजन्राज्ञश्चित्राङ्गदस्य च

Mahabharata

Shanti Parva, Adhyaya 4, Verse 3

श्रीमद्राजपुरं नाम नगरं तत्र भारत

राजानः शतशस्तत्र कन्यार्थं समुपागमन्

Mahabharata

Shanti Parva, Adhyaya 4, Verse 4

श्रुत्वा दुर्योधनस्तत्र समेतान्सर्वपार्थिवान्

रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ

Mahabharata

Shanti Parva, Adhyaya 4, Verse 5

ततः स्वयंवरे तस्मिन्संप्रवृत्ते महोत्सवे

समापेतुर्नृपतयः कन्यार्थे नृपसत्तम

Mahabharata

Shanti Parva, Adhyaya 4, Verse 6

शिशुपालो जरासंधो भीष्मको वक्र एव च

कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः

Mahabharata

Shanti Parva, Adhyaya 4, Verse 7

सृगालश्च महाराज स्त्रीराज्याधिपतिश्च यः

अशोकः शतधन्वा च भोजो वीरश्च नामतः

Mahabharata

Shanti Parva, Adhyaya 4, Verse 8

एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः

म्लेच्छाचार्याश्च राजानः प्राच्योदीच्याश्च भारत

Mahabharata

Shanti Parva, Adhyaya 4, Verse 9

काञ्चनाङ्गदिनः सर्वे बद्धजाम्बूनदस्रजः

सर्वे भास्वरदेहाश्च व्याघ्रा इव मदोत्कटाः

Mahabharata

Shanti Parva, Adhyaya 4, Verse 10

ततः समुपविष्टेषु तेषु राजसु भारत

विवेश रङ्गं सा कन्या धात्रीवर्षधरान्विता

Mahabharata

Shanti Parva, Adhyaya 4, Verse 11

ततः संश्राव्यमाणेषु राज्ञां नामसु भारत

अत्यक्रामद्धार्तराष्ट्रं सा कन्या वरवर्णिनी

Mahabharata

Shanti Parva, Adhyaya 4, Verse 12

दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम्

प्रत्यषेधच्च तां कन्यामसत्कृत्य नराधिपान्

Mahabharata

Shanti Parva, Adhyaya 4, Verse 13

स वीर्यमदमत्तत्वाद्भीष्मद्रोणावुपाश्रितः

रथमारोप्य तां कन्यामाजुहाव नराधिपान्

Mahabharata

Shanti Parva, Adhyaya 4, Verse 14

तमन्वयाद्रथी खड्गी भद्धगोधाङ्गुलित्रवान्

कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ

Mahabharata

Shanti Parva, Adhyaya 4, Verse 15

ततो विमर्दः सुमहान्राज्ञामासीद्युधिष्ठिर

संनह्यतां तनुत्राणि रथान्योजयतामपि

Mahabharata

Shanti Parva, Adhyaya 4, Verse 16

तेऽभ्यधावन्त संक्रुद्धाः कर्णदुर्योधनावुभौ

शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव

Mahabharata

Shanti Parva, Adhyaya 4, Verse 17

कर्णस्तेषामापततामेकैकेन क्षुरेण ह

धनूंषि सशरावापान्यपातयत भूतले

Mahabharata

Shanti Parva, Adhyaya 4, Verse 18

ततो विधनुषः कांश्चित्कांश्चिदुद्यतकार्मुकान्

कांश्चिदुद्वहतो बाणान्रथशक्तिगदास्तथा

Mahabharata

Shanti Parva, Adhyaya 4, Verse 19

लाघवादाकुलीकृत्य कर्णः प्रहरतां वरः

हतसूतांश्च भूयिष्ठानवजिग्ये नराधिपान्

Mahabharata

Shanti Parva, Adhyaya 4, Verse 20

ते स्वयं त्वरयन्तोऽश्वान्याहि याहीति वादिनः

व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः

Mahabharata

Shanti Parva, Adhyaya 4, Verse 21

दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात्तदा

हृष्टः कन्यामुपादाय नगरं नागसाह्वयम्