Shanti Parva, Adhyaya 1, Verse 1
कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः
विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः
विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः
तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः
शौचं निवर्तयिष्यन्तो मासमेकं बहिः पुरात्
कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम्
अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः
द्वैपायनो नारदश्च देवलश्च महानृषिः
देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः
अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः
गृहस्थाः स्नातकाः सर्वे ददृशुः कुरुसत्तमम्
अभिगम्य महात्मानः पूजिताश्च यथाविधि
आसनेषु महार्हेषु विविशुस्ते महर्षयः
प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा
पर्युपासन्यथान्यायं परिवार्य युधिष्ठिरम्
पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम्
आश्वासयन्तो राजानं विप्राः शतसहस्रशः
नारदस्त्वब्रवीत्काले धर्मात्मानं युधिष्ठिरम्
विचार्य मुनिभिः सार्धं तत्कालसदृशं वचः
भवतो बाहुवीर्येण प्रसादान्माधवस्य च
जितेयमवनिः कृत्स्ना धर्मेण च युधिष्ठिर
दिष्ट्या मुक्ताः स्थ संग्रामादस्माल्लोकभयंकरात्
क्षत्रधर्मरतश्चापि कच्चिन्मोदसि पाण्डव
कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप
कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते
विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात्
ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च
इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा
कृत्वा ज्ञातिक्षयमिमं महान्तं लोभकारितम्
सौभद्रं द्रौपदेयांश्च घातयित्वा प्रियान्सुतान्
जयोऽयमजयाकारो भगवन्प्रतिभाति मे
किं नु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम्
द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम्
द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा
अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम्
इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद
मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः
योऽसौ नागायुतबलो लोकेऽप्रतिरथो रणे
सिंहखेलगतिर्धीमान्घृणी दान्तो यतव्रतः
आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः
अमर्षी नित्यसंरम्भी क्षेप्तास्माकं रणे रणे
शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः
गूढोत्पन्नः सुतः कुन्त्या भ्रातास्माकं च सोदरः
तोयकर्मणि यं कुन्ती कथयामास सूर्यजम्
पुत्रं सर्वगुणोपेतमवकीर्णं जले पुरा
यं सूतपुत्रं लोकोऽयं राधेयं चाप्यमन्यत
स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः
अजानता मया संख्ये राज्यलुब्धेन घातितः
तन्मे दहति गात्राणि तूलराशिमिवानलः
न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः
नाहं न भीमो न यमौ स त्वस्मान्वेद सुव्रतः
गता किल पृथा तस्य सकाशमिति नः श्रुतम्
अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ
पृथाया न कृतः कामस्तेन चापि महात्मना
अतिपश्चादिदं मातर्यवोचदिति नः श्रुतम्
न हि शक्ष्याम्यहं त्यक्तुं नृपं दुर्योधनं रणे
अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत्
युधिष्ठिरेण संधिं च यदि कुर्यां मते तव
भीतो रणे श्वेतवाहादिति मां मंस्यते जनः
सोऽहं निर्जित्य समरे विजयं सहकेशवम्
संधास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत्