Mahabharata

Adi Parva, Adhyaya 199

Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 199, Verse 1

एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम्

ममापि परमो हर्षः संबन्धेऽस्मिन्कृते विभो

Mahabharata

Adi Parva, Adhyaya 199, Verse 2

गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम्

न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा

Mahabharata

Adi Parva, Adhyaya 199, Verse 3

यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः

भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ

Mahabharata

Adi Parva, Adhyaya 199, Verse 4

रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः

एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ

Mahabharata

Adi Parva, Adhyaya 199, Verse 5

परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः

यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम्

Mahabharata

Adi Parva, Adhyaya 199, Verse 6

ततोऽब्रवीद्वासुदेवो गमनं मम रोचते

यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित्

Mahabharata

Adi Parva, Adhyaya 199, Verse 7

यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः

प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम

Mahabharata

Adi Parva, Adhyaya 199, Verse 8

यथैव हि महाभागाः कौन्तेया मम सांप्रतम्

तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः

Mahabharata

Adi Parva, Adhyaya 199, Verse 9

न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः

यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः

Mahabharata

Adi Parva, Adhyaya 199, Verse 10

ततस्ते समनुज्ञाता द्रुपदेन महात्मना

पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः

Mahabharata

Adi Parva, Adhyaya 199, Verse 11

आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम्

सविहारं सुखं जग्मुर्नगरं नागसाह्वयम्

Mahabharata

Adi Parva, Adhyaya 199, Verse 12

श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः

प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान्

Mahabharata

Adi Parva, Adhyaya 199, Verse 13

विकर्णं च महेष्वासं चित्रसेनं च भारत

द्रोणं च परमेष्वासं गौतमं कृपमेव च

Mahabharata

Adi Parva, Adhyaya 199, Verse 14

तैस्ते परिवृता वीराः शोभमाना महारथाः

नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा

Mahabharata

Adi Parva, Adhyaya 199, Verse 15

कौतूहलेन नगरं दीर्यमाणमिवाभवत्

यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः

Mahabharata

Adi Parva, Adhyaya 199, Verse 16

तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः

उदीरिता अशृण्वंस्ते पाण्डवा हृदयंगमाः

Mahabharata

Adi Parva, Adhyaya 199, Verse 17

अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित्

यो नः स्वानिव दायादान्धर्मेण परिरक्षति

Mahabharata

Adi Parva, Adhyaya 199, Verse 18

अद्य पाण्डुर्महाराजो वनादिव वनप्रियः

आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः

Mahabharata

Adi Parva, Adhyaya 199, Verse 19

किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम्

यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः

Mahabharata

Adi Parva, Adhyaya 199, Verse 20

यदि दत्तं यदि हुतं विद्यते यदि नस्तपः

तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम्

Mahabharata

Adi Parva, Adhyaya 199, Verse 21

ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः

अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम्

Mahabharata

Adi Parva, Adhyaya 199, Verse 22

कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते

समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात्

Mahabharata

Adi Parva, Adhyaya 199, Verse 23

विश्रान्तास्ते महात्मानः कंचित्कालं महाबलाः

आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च

Mahabharata

Adi Parva, Adhyaya 199, Verse 24

भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम

पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश

Mahabharata

Adi Parva, Adhyaya 199, Verse 25

न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम्

संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा

अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविश

Mahabharata

Adi Parva, Adhyaya 199, Verse 26

प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च

प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः

अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविशन्

Mahabharata

Adi Parva, Adhyaya 199, Verse 27

ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः

मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः

Mahabharata

Adi Parva, Adhyaya 199, Verse 28

ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः

नगरं मापयामासुर्द्वैपायनपुरोगमाः

Mahabharata

Adi Parva, Adhyaya 199, Verse 29

सागरप्रतिरूपाभिः परिखाभिरलंकृतम्

प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता

Mahabharata

Adi Parva, Adhyaya 199, Verse 30

पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च

शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा