Adi Parva, Adhyaya 197, Verse 1
राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः
न त्वशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः
न त्वशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति
हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः
भीष्मः शांतनवो राजन्प्रतिगृह्णासि तन्न च
तथा द्रोणेन बहुधा भाषितं हितमुत्तमम्
तच्च राधासुतः कर्णो मन्यते न हितं तव
चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम्
आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च
समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च
धर्मे चानवमौ राजन्सत्यतायां च भारत
रामाद्दाशरथेश्चैव गयाच्चैव न संशयः
न चोक्तवन्तावश्रेयः पुरस्तादपि किंचन
न चाप्यपकृतं किंचिदनयोर्लक्ष्यते त्वयि
ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि
न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ
प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप
त्वन्निमित्तमतो नेमौ किंचिज्जिह्मं वदिष्यतः
इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम्
एतद्धि परमं श्रेयो मेनाते तव भारत
दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव
तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः
तेषु चेदहितं किंचिन्मन्त्रयेयुरबुद्धितः
मन्त्रिणस्ते न ते श्रेयः प्रपश्यन्ति विशेषतः
अथ ते हृदये राजन्विशेषस्तेषु वर्तते
अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम्
एतदर्थमिमौ राजन्महात्मानौ महाद्युती
नोचतुर्विवृतं किंचिन्न ह्येष तव निश्चयः
यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ
तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते
कथं हि पाण्डवः श्रीमान्सव्यसाची परंतपः
शक्यो विजेतुं संग्रामे राजन्मघवता अपि
भीमसेनो महाबाहुर्नागायुतबलो महान्
कथं हि युधि शक्येत विजेतुममरैरपि
तथैव कृतिनौ युद्धे यमौ यमसुताविव
कथं विषहितुं शक्यौ रणे जीवितुमिच्छता
यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः
नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे
येषां पक्षधरो रामो येषां मन्त्री जनार्दनः
किं नु तैरजितं संख्ये येषां पक्षे च सात्यकिः
द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः
धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः
सोऽशक्यतां च विज्ञाय तेषामग्रेण भारत
दायाद्यतां च धर्मेण सम्यक्तेषु समाचर
इदं निर्दिग्धमयशः पुरोचनकृतं महत्
तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः
द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा
तस्य संग्रहणं राजन्स्वपक्षस्य विवर्धनम्
बलवन्तश्च दाशार्हा बहवश्च विशां पते
यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः
यच्च साम्नैव शक्येत कार्यं साधयितुं नृप
को दैवशप्तस्तत्कार्तुं विग्रहेण समाचरेत्
श्रुत्वा च जीवतः पार्थान्पौरजानपदो जनः
बलवद्दर्शने गृध्नुस्तेषां राजन्कुरु प्रियम्
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः
अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः
उक्तमेतन्मया राजन्पुरा गुणवतस्तव
दुर्योधनापराधेन प्रजेयं विनशिष्यति