Mahabharata

Adi Parva, Adhyaya 196

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 196, Verse 1

मन्त्राय समुपानीतैर्धृतराष्ट्रहितैर्नृप

धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः

Mahabharata

Adi Parva, Adhyaya 196, Verse 2

ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः

संविभज्यास्तु कौन्तेया धर्म एष सनातनः

Mahabharata

Adi Parva, Adhyaya 196, Verse 3

प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः

बहुलं रत्नमादाय तेषामर्थाय भारत

Mahabharata

Adi Parva, Adhyaya 196, Verse 4

मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु

वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा

Mahabharata

Adi Parva, Adhyaya 196, Verse 5

संप्रीयमाणं त्वां ब्रूयाद्राजन्दुर्योधनं तथा

असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत

Mahabharata

Adi Parva, Adhyaya 196, Verse 6

उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत्

पुनः पुनश्च कौन्तेयान्माद्रीपुत्रौ च सान्त्वयन्

Mahabharata

Adi Parva, Adhyaya 196, Verse 7

हिरण्मयानि शुभ्राणि बहून्याभरणानि च

वचनात्तव राजेन्द्र द्रौपद्याः संप्रयच्छतु

Mahabharata

Adi Parva, Adhyaya 196, Verse 8

तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ

पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च

Mahabharata

Adi Parva, Adhyaya 196, Verse 9

एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह

उक्त्वाथानन्तरं ब्रूयात्तेषामागमनं प्रति

Mahabharata

Adi Parva, Adhyaya 196, Verse 10

अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम्

दुःशासनो विकर्णश्च पाण्डवानानयन्त्विह

Mahabharata

Adi Parva, Adhyaya 196, Verse 11

ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया

प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके

Mahabharata

Adi Parva, Adhyaya 196, Verse 12

एवं तव महाराज तेषु पुत्रेषु चैव ह

वृत्तमौपयिकं मन्ये भीष्मेण सह भारत

Mahabharata

Adi Parva, Adhyaya 196, Verse 13

योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ

न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः

Mahabharata

Adi Parva, Adhyaya 196, Verse 14

दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना

ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम्

Mahabharata

Adi Parva, Adhyaya 196, Verse 15

न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा

विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम्

Mahabharata

Adi Parva, Adhyaya 196, Verse 16

कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः

ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति

Mahabharata

Adi Parva, Adhyaya 196, Verse 17

श्रूयते हि पुरा कश्चिदम्बुवीच इति श्रुतः

आसीद्राजगृहे राजा मागधानां महीक्षिताम्

Mahabharata

Adi Parva, Adhyaya 196, Verse 18

स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः

अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा

Mahabharata

Adi Parva, Adhyaya 196, Verse 19

तस्यामात्यो महाकर्णिर्बभूवैकेश्वरः पुरा

स लब्धबलमात्मानं मन्यमानोऽवमन्यते

Mahabharata

Adi Parva, Adhyaya 196, Verse 20

स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च

आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा

Mahabharata

Adi Parva, Adhyaya 196, Verse 21

तदादाय च लुब्धस्य लाभाल्लोभो व्यवर्धत

तथा हि सर्वमादाय राज्यमस्य जिहीर्षति

Mahabharata

Adi Parva, Adhyaya 196, Verse 22

हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च

यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम्

Mahabharata

Adi Parva, Adhyaya 196, Verse 23

किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता

यदि ते विहितं राज्यं भविष्यति विशां पते

Mahabharata

Adi Parva, Adhyaya 196, Verse 24

मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम्

अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे

Mahabharata

Adi Parva, Adhyaya 196, Verse 25

एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम्

दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम्

Mahabharata

Adi Parva, Adhyaya 196, Verse 26

विद्म ते भावदोषेण यदर्थमिदमुच्यते

दुष्टः पाण्डवहेतोस्त्वं दोषं ख्यापयसे हि नः

Mahabharata

Adi Parva, Adhyaya 196, Verse 27

हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम्

अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम्

Mahabharata

Adi Parva, Adhyaya 196, Verse 28

अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम्

कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः