Mahabharata

Adi Parva, Adhyaya 195

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 195, Verse 1

न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन

यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम्

Mahabharata

Adi Parva, Adhyaya 195, Verse 2

गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः

यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव

Mahabharata

Adi Parva, Adhyaya 195, Verse 3

यथा च मम राज्ञश्च तथा दुर्योधनस्य ते

तथा कुरूणां सर्वेषामन्येषामपि भारत

Mahabharata

Adi Parva, Adhyaya 195, Verse 4

एवं गते विग्रहं तैर्न रोचये; संधाय वीरैर्दीयतामद्य भूमिः

तेषामपीदं प्रपितामहानां; राज्यं पितुश्चैव कुरूत्तमानाम्

Mahabharata

Adi Parva, Adhyaya 195, Verse 5

दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि

मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः

Mahabharata

Adi Parva, Adhyaya 195, Verse 6

यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः

कुत एव तवापीदं भारतस्य च कस्यचित्

Mahabharata

Adi Parva, Adhyaya 195, Verse 7

अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ

तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः

Mahabharata

Adi Parva, Adhyaya 195, Verse 8

मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम्

एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च

Mahabharata

Adi Parva, Adhyaya 195, Verse 9

अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति

तवाप्यकीर्तिः सकला भविष्यति न संशयः

Mahabharata

Adi Parva, Adhyaya 195, Verse 10

कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम्

नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम्

Mahabharata

Adi Parva, Adhyaya 195, Verse 11

यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव

तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति

Mahabharata

Adi Parva, Adhyaya 195, Verse 12

तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम्

अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु

Mahabharata

Adi Parva, Adhyaya 195, Verse 13

दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा

दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः

Mahabharata

Adi Parva, Adhyaya 195, Verse 14

तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम्

लोके प्राणभृतां कंचिच्छ्रुत्वा कुन्तीं तथागताम्

Mahabharata

Adi Parva, Adhyaya 195, Verse 15

न चापि दोषेण तथा लोको वैति पुरोचनम्

यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति

Mahabharata

Adi Parva, Adhyaya 195, Verse 16

तदिदं जीवितं तेषां तव कल्मषनाशनम्

संमन्तव्यं महाराज पाण्डवानां च दर्शनम्

Mahabharata

Adi Parva, Adhyaya 195, Verse 17

न चापि तेषां वीराणां जीवतां कुरुनन्दन

पित्र्योंऽशः शक्य आदातुमपि वज्रभृता स्वयम्

Mahabharata

Adi Parva, Adhyaya 195, Verse 18

ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः

अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः

Mahabharata

Adi Parva, Adhyaya 195, Verse 19

यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे

क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम्