Adi Parva, Adhyaya 193, Verse 1
अहमप्येवमेवैतच्चिन्तयामि यथा युवाम्
विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
अहमप्येवमेवैतच्चिन्तयामि यथा युवाम्
विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति
अतस्तेषां गुणानेव कीर्तयामि विशेषतः
नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः
यच्च त्वं मन्यसे प्राप्तं तद्ब्रूहि त्वं सुयोधन
राधेय मन्यसे त्वं च यत्प्राप्तं तद्ब्रवीहि मे
अद्य तान्कुशलैर्विप्रैः सुकृतैराप्तकारिभिः
कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ
अथ वा द्रुपदो राजा महद्भिर्वित्तसंचयैः
पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः
परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम्
अथ तत्रैव वा तेषां निवासं रोचयन्तु ते
इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक्
ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः
अथ वा कुशलाः केचिदुपायनिपुणा नराः
इतरेतरतः पार्थान्भेदयन्त्वनुरागतः
व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत्
अथ वा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम्
भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः
मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः
तस्मिंस्तु निहते राजन्हतोत्साहा हतौजसः
यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः
अजेयो ह्यर्जुनः संख्ये पृष्ठगोपे वृकोदरे
तमृते फल्गुनो युद्धे राधेयस्य न पादभाक्
ते जानमाना दौर्बल्यं भीमसेनमृते महत्
अस्मान्बलवतो ज्ञात्वा नशिष्यन्त्यबलीयसः
इहागतेषु पार्थेषु निदेशवशवर्तिषु
प्रवर्तिष्यामहे राजन्यथाश्रद्धं निबर्हणे
अथ वा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम्
एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम्
प्रेष्यतां वापि राधेयस्तेषामागमनाय वै
ते लोप्त्रहारैः संधाय वध्यन्तामाप्तकारिभिः
एतेषामभ्युपायानां यस्ते निर्दोषवान्मतः
तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते
यावच्चाकृतविश्वासा द्रुपदे पार्थिवर्षभे
तावदेवाद्य ते शक्या न शक्यास्तु ततः परम्
एषा मम मतिस्तात निग्रहाय प्रवर्तते
साधु वा यदि वासाधु किं वा राधेय मन्यसे