Adi Parva, Adhyaya 191, Verse 1
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु
न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु
न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः
नाम संकीर्तयन्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला
कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः
रूपलक्षणसंपन्नां शीलाचारसमन्विताम्
द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम्
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ
रोहिणी च यथा सोमे दमयन्ती यथा नले
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती
यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु
जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता
सुभगा भोगसंपन्ना यज्ञपत्नी स्वनुव्रता
अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा
पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च
अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम्
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः
कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ
पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते
तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम्
यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम्
तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम्
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः
मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च
वासांसि च महार्हाणि नानादेश्यानि माधवः
कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च
शयनासनयानानि विविधानि महान्ति च
वैडूर्यवज्रचित्राणि शतशो भाजनानि च
रूपयौवनदाक्षिण्यैरुपेताश्च स्वलंकृताः
प्रेष्याः संप्रददौ कृष्णो नानादेश्याः सहस्रशः
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलंकृतान्
रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलंकृतान्
कोटिशश्च सुवर्णं स तेषामकृतकं तथा
वीतीकृतममेयात्मा प्राहिणोन्मधुसूदनः
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः
मुदा परमया युक्तो गोविन्दप्रियकाम्यया