Adi Parva, Adhyaya 189, Verse 1
पुरा वै नैमिषारण्ये देवाः सत्रमुपासते
तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
पुरा वै नैमिषारण्ये देवाः सत्रमुपासते
तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा
ततो यमो दीक्षितस्तत्र राज;न्नामारयत्किंचिदपि प्रजाभ्यः
ततः प्रजास्ता बहुला बभूवुः; कालातिपातान्मरणात्प्रहीणाः
ततस्तु शक्रो वरुणः कुबेरः; साध्या रुद्रा वसवश्चाश्विनौ च
प्रणेतारं भुवनस्य प्रजापतिं; समाजग्मुस्तत्र देवास्तथान्ये
ततोऽब्रुवँल्लोकगुरुं समेता; भयं नस्तीव्रं मानुषाणां विवृद्ध्या
तस्माद्भयादुद्विजन्तः सुखेप्सवः; प्रयाम सर्वे शरणं भवन्तम्
किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः
मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हिचित्
मर्त्या ह्यमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन
अविशेषादुद्विजन्तो विशेषार्थमिहागताः
वैवस्वतो व्यापृतः सत्रहेतो;स्तेन त्विमे न म्रियन्ते मनुष्याः
तस्मिन्नेकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्तकालः
वैवस्वतस्यापि तनुर्विभूता; वीर्येण युष्माकमुत प्रयुक्ता
सैषामन्तो भविता ह्यन्तकाले; तनुर्हि वीर्यं भविता नरेषु
ततस्तु ते पूर्वजदेववाक्यं; श्रुत्वा देवा यत्र देवा यजन्ते
समासीनास्ते समेता महाबला; भागीरथ्यां ददृशुः पुण्डरीकम्
दृष्ट्वा च तद्विस्मितास्ते बभूवु;स्तेषामिन्द्रस्तत्र शूरो जगाम
सोऽपश्यद्योषामथ पावकप्रभां; यत्र गङ्गा सततं संप्रसूता
सा तत्र योषा रुदती जलार्थिनी; गङ्गां देवीं व्यवगाह्यावतिष्ठत्
तस्याश्रुबिन्दुः पतितो जले वै; तत्पद्ममासीदथ तत्र काञ्चनम्
तदद्भुतं प्रेक्ष्य वज्री तदानी;मपृच्छत्तां योषितमन्तिकाद्वै
का त्वं कथं रोदिषि कस्य हेतो;र्वाक्यं तथ्यं कामयेह ब्रवीहि
त्वं वेत्स्यसे मामिह यास्मि शक्र; यदर्थं चाहं रोदिमि मन्दभाग्या
आगच्छ राजन्पुरतोऽहं गमिष्ये; द्रष्टासि तद्रोदिमि यत्कृतेऽहम्
तां गच्छन्तीमन्वगच्छत्तदानीं; सोऽपश्यदारात्तरुणं दर्शनीयम्
सिंहासनस्थं युवतीसहायं; क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि
तमब्रवीद्देवराजो ममेदं; त्वं विद्धि विश्वं भुवनं वशे स्थितम्
ईशोऽहमस्मीति समन्युरब्रवी;द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम्
क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो; जहास शक्रं च शनैरुदैक्षत
संस्तम्भितोऽभूदथ देवराज;स्तेनेक्षितः स्थाणुरिवावतस्थे
यदा तु पर्याप्तमिहास्य क्रीडया; तदा देवीं रुदतीं तामुवाच
आनीयतामेष यतोऽहमारा;न्मैनं दर्पः पुनरप्याविशेत
ततः शक्रः स्पृष्टमात्रस्तया तु; स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम्
तमब्रवीद्भगवानुग्रतेजा; मैवं पुनः शक्र कृथाः कथंचित्
विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम्
विवृत्य चैवाविश मध्यमस्य; यत्रासते त्वद्विधाः सूर्यभासः
स तद्विवृत्य शिखरं महागिरे;स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श
स तानभिप्रेक्ष्य बभूव दुःखितः; कच्चिन्नाहं भविता वै यथेमे
ततो देवो गिरिशो वज्रपाणिं; विवृत्य नेत्रे कुपितोऽभ्युवाच
दरीमेतां प्रविश त्वं शतक्रतो; यन्मां बाल्यादवमंस्थाः पुरस्तात्
उक्तस्त्वेवं विभुना देवराजः; प्रवेपमानो भृशमेवाभिषङ्गात्
स्रस्तैरङ्गैरनिलेनेव नुन्न;मश्वत्थपत्रं गिरिराजमूर्ध्नि
स प्राञ्जलिर्विनतेनाननेन; प्रवेपमानः सहसैवमुक्तः
उवाच चेदं बहुरूपमुग्रं; द्रष्टा शेषस्य भगवंस्त्वं भवाद्य
तमब्रवीदुग्रधन्वा प्रहस्य; नैवंशीलाः शेषमिहाप्नुवन्ति
एतेऽप्येवं भवितारः पुरस्ता;त्तस्मादेतां दरिमाविश्य शेध्वम्
शेषोऽप्येवं भविता वो न संशयो; योनिं सर्वे मानुषीमाविशध्वम्
तत्र यूयं कर्म कृत्वाविषह्यं; बहूनन्यान्निधनं प्रापयित्वा
आगन्तारः पुनरेवेन्द्रलोकं; स्वकर्मणा पूर्वजितं महार्हम्
सर्वं मया भाषितमेतदेवं; कर्तव्यमन्यद्विविधार्थवच्च
गमिष्यामो मानुषं देवलोका;द्दुराधरो विहितो यत्र मोक्षः
देवास्त्वस्मानादधीरञ्जनन्यां; धर्मो वायुर्मघवानश्विनौ च
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु; देवश्रेष्ठं पुनरेवेदमाह
वीर्येणाहं पुरुषं कार्यहेतो;र्दद्यामेषां पञ्चमं मत्प्रसूतम्
तेषां कामं भगवानुग्रधन्वा; प्रादादिष्टं सन्निसर्गाद्यथोक्तम्
तां चाप्येषां योषितं लोककान्तां; श्रियं भार्यां व्यदधान्मानुषेषु
तैरेव सार्धं तु ततः स देवो; जगाम नारायणमप्रमेयम्
स चापि तद्व्यदधात्सर्वमेव; ततः सर्वे संबभूवुर्धरण्याम्