Adi Parva, Adhyaya 188, Verse 1
ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः
प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन्
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः
प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन्
प्रतिनन्द्य स तान्सर्वान्पृष्ट्वा कुशलमन्ततः
आसने काञ्चने शुभ्रे निषसाद महामनाः
अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा
आसनेषु महार्हेषु निषेदुर्द्विपदां वराः
ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः
पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः
कथमेका बहूनां स्यान्न च स्याद्धर्मसंकरः
एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम्
अस्मिन्धर्मे विप्रलम्भे लोकवेदविरोधके
यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत्
अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः
न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम
न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः
न च धर्मोऽप्यनेकस्थश्चरितव्यः सनातनः
अतो नाहं करोम्येवं व्यवसायं क्रियां प्रति
धर्मसंदेहसंदिग्धं प्रतिभाति हि मामिदम्
यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ
ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन
न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथंचन
अधर्मो धर्म इति वा व्यवसायो न शक्यते
कर्तुमस्मद्विधैर्ब्रह्मंस्ततो न व्यवसाम्यहम्
पञ्चानां महिषी कृष्णा भवत्विति कथंचन
न मे वागनृतं प्राह नाधर्मे धीयते मतिः
वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथंचन
श्रूयते हि पुराणेऽपि जटिला नाम गौतमी
ऋषीनध्यासितवती सप्त धर्मभृतां वर
गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञसत्तम
गुरूणां चैव सर्वेषां जनित्री परमो गुरुः
सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति
तस्मादेतदहं मन्ये धर्मं द्विजवरोत्तम
एवमेतद्यथाहायं धर्मचारी युधिष्ठिरः
अनृतान्मे भयं तीव्रं मुच्येयमनृतात्कथम्
अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः
न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम्
यथायं विहितो धर्मो यतश्चायं सनातनः
यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः
तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः
करे गृहीत्वा राजानं राजवेश्म समाविशत्
पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः
विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ
ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने
आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता