Mahabharata

Adi Parva, Adhyaya 185

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 185, Verse 1

ततस्तथोक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः

धृष्टद्युम्नः सोमकानां प्रबर्हो; वृत्तं यथा येन हृता च कृष्णा

Mahabharata

Adi Parva, Adhyaya 185, Verse 2

योऽसौ युवा स्वायतलोहिताक्षः; कृष्णाजिनी देवसमानरूपः

यः कार्मुकाग्र्यं कृतवानधिज्यं; लक्ष्यं च तत्पातितवान्पृथिव्याम्

Mahabharata

Adi Parva, Adhyaya 185, Verse 3

असज्जमानश्च गतस्तरस्वी; वृतो द्विजाग्र्यैरभिपूज्यमानः

चक्राम वज्रीव दितेः सुतेषु; सर्वैश्च देवैरृषिभिश्च जुष्टः

Mahabharata

Adi Parva, Adhyaya 185, Verse 4

कृष्णा च गृह्याजिनमन्वयात्तं; नागं यथा नागवधूः प्रहृष्टा

अमृष्यमाणेषु नराधिपेषु; क्रुद्धेषु तं तत्र समापतत्सु

Mahabharata

Adi Parva, Adhyaya 185, Verse 5

ततोऽपरः पार्थिवराजमध्ये; प्रवृद्धमारुज्य महीप्ररोहम्

प्रकालयन्नेव स पार्थिवौघा;न्क्रुद्धोऽन्तकः प्राणभृतो यथैव

Mahabharata

Adi Parva, Adhyaya 185, Verse 6

तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णामुपादाय गतौ नराग्र्यौ

विभ्राजमानाविव चन्द्रसूर्यौ; बाह्यां पुराद्भार्गवकर्मशालाम्

Mahabharata

Adi Parva, Adhyaya 185, Verse 7

तत्रोपविष्टार्चिरिवानलस्य; तेषां जनित्रीति मम प्रतर्कः

तथाविधैरेव नरप्रवीरै;रुपोपविष्टैस्त्रिभिरग्निकल्पैः

Mahabharata

Adi Parva, Adhyaya 185, Verse 8

तस्यास्ततस्तावभिवाद्य पादा;वुक्त्वा च कृष्णामभिवादयेति

स्थितौ च तत्रैव निवेद्य कृष्णां; भैक्षप्रचाराय गता नराग्र्याः

Mahabharata

Adi Parva, Adhyaya 185, Verse 9

तेषां तु भैक्षं प्रतिगृह्य कृष्णा; कृत्वा बलिं ब्राह्मणसाच्च कृत्वा

तां चैव वृद्धां परिविष्य तांश्च; नरप्रवीरान्स्वयमप्यभुङ्क्त

Mahabharata

Adi Parva, Adhyaya 185, Verse 10

सुप्तास्तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणोपधानम्

आसीत्पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणोपपन्नम्

Mahabharata

Adi Parva, Adhyaya 185, Verse 11

ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः

न वैश्यशूद्रौपयिकीः कथास्ता; न च द्विजातेः कथयन्ति वीराः

Mahabharata

Adi Parva, Adhyaya 185, Verse 12

निःसंशयं क्षत्रियपुंगवास्ते; यथा हि युद्धं कथयन्ति राजन्

आशा हि नो व्यक्तमियं समृद्धा; मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात्

Mahabharata

Adi Parva, Adhyaya 185, Verse 13

यथा हि लक्ष्यं निहतं धनुश्च; सज्यं कृतं तेन तथा प्रसह्य

यथा च भाषन्ति परस्परं ते; छन्ना ध्रुवं ते प्रचरन्ति पार्थाः

Mahabharata

Adi Parva, Adhyaya 185, Verse 14

ततः स राजा द्रुपदः प्रहृष्टः; पुरोहितं प्रेषयां तत्र चक्रे

विद्याम युष्मानिति भाषमाणो; महात्मनः पाण्डुसुताः स्थ कच्चित्

Mahabharata

Adi Parva, Adhyaya 185, Verse 15

गृहीतवाक्यो नृपतेः पुरोधा; गत्वा प्रशंसामभिधाय तेषाम्

वाक्यं यथावन्नृपतेः समग्र;मुवाच तान्स क्रमवित्क्रमेण

Mahabharata

Adi Parva, Adhyaya 185, Verse 16

विज्ञातुमिच्छत्यवनीश्वरो वः; पाञ्चालराजो द्रुपदो वरार्हाः

लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः

Mahabharata

Adi Parva, Adhyaya 185, Verse 17

तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं; पदं शिरःसु द्विषतां कुरुध्वम्

प्रह्लादयध्वं हृदयं ममेदं; पाञ्चालराजस्य सहानुगस्य

Mahabharata

Adi Parva, Adhyaya 185, Verse 18

पाण्डुर्हि राजा द्रुपदस्य राज्ञः; प्रियः सखा चात्मसमो बभूव

तस्यैष कामो दुहिता ममेयं; स्नुषा यदि स्यादिति कौरवस्य

Mahabharata

Adi Parva, Adhyaya 185, Verse 19

अयं च कामो द्रुपदस्य राज्ञो; हृदि स्थितो नित्यमनिन्दिताङ्गाः

यदर्जुनो वै पृथुदीर्घबाहु;र्धर्मेण विन्देत सुतां ममेति

Mahabharata

Adi Parva, Adhyaya 185, Verse 20

तथोक्तवाक्यं तु पुरोहितं तं; स्थितं विनीतं समुदीक्ष्य राजा

समीपस्थं भीममिदं शशास; प्रदीयतां पाद्यमर्घ्यं तथास्मै

Mahabharata

Adi Parva, Adhyaya 185, Verse 21

मान्यः पुरोधा द्रुपदस्य राज्ञ;स्तस्मै प्रयोज्याभ्यधिकैव पूजा

भीमस्तथा तत्कृतवान्नरेन्द्र; तां चैव पूजां प्रतिसंगृहीत्वा

Mahabharata

Adi Parva, Adhyaya 185, Verse 22

सुखोपविष्टं तु पुरोहितं तं; युधिष्ठिरो ब्राह्मणमित्युवाच

पाञ्चालराजेन सुता निसृष्टा; स्वधर्मदृष्टेन यथानुकामम्

Mahabharata

Adi Parva, Adhyaya 185, Verse 23

प्रदिष्टशुल्का द्रुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता

न तत्र वर्णेषु कृता विवक्षा; न जीवशिल्पे न कुले न गोत्रे

Mahabharata

Adi Parva, Adhyaya 185, Verse 24

कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा

सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिवसंघमध्ये

Mahabharata

Adi Parva, Adhyaya 185, Verse 25

नैवंगते सौमकिरद्य राजा; संतापमर्हत्यसुखाय कर्तुम्

कामश्च योऽसौ द्रुपदस्य राज्ञः; स चापि संपत्स्यति पार्थिवस्य

Mahabharata

Adi Parva, Adhyaya 185, Verse 26

अप्राप्यरूपां हि नरेन्द्रकन्या;मिमामहं ब्राह्मण साधु मन्ये

न तद्धनुर्मन्दबलेन शक्यं; मौर्व्या समायोजयितुं तथा हि

न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम्

Mahabharata

Adi Parva, Adhyaya 185, Verse 27

तस्मान्न तापं दुहितुर्निमित्तं; पाञ्चालराजोऽर्हति कर्तुमद्य

न चापि तत्पातनमन्यथेह; कर्तुं विषह्यं भुवि मानवेन

Mahabharata

Adi Parva, Adhyaya 185, Verse 28

एवं ब्रुवत्येव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतोऽन्यः

तत्राजगामाशु नरो द्वितीयो; निवेदयिष्यन्निह सिद्धमन्नम्