Mahabharata

Adi Parva, Adhyaya 184

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 184, Verse 1

धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ

अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम्

Mahabharata

Adi Parva, Adhyaya 184, Verse 2

सोऽज्ञायमानः पुरुषानवधाय समन्ततः

स्वयमारान्निविष्टोऽभूद्भार्गवस्य निवेशने

Mahabharata

Adi Parva, Adhyaya 184, Verse 3

सायेऽथ भीमस्तु रिपुप्रमाथी; जिष्णुर्यमौ चापि महानुभावौ

भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुरदीनसत्त्वाः

Mahabharata

Adi Parva, Adhyaya 184, Verse 4

ततस्तु कुन्ती द्रुपदात्मजां ता;मुवाच काले वचनं वदान्या

अतोऽग्रमादाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम्

Mahabharata

Adi Parva, Adhyaya 184, Verse 5

ये चान्नमिच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितो मनुष्याः

ततश्च शेषं प्रविभज्य शीघ्र;मर्धं चतुर्णां मम चात्मनश्च

Mahabharata

Adi Parva, Adhyaya 184, Verse 6

अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभतुल्यरूपः

श्यामो युवा संहननोपपन्न; एषो हि वीरो बहुभुक्सदैव

Mahabharata

Adi Parva, Adhyaya 184, Verse 7

सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्वविशङ्कमाना

यथावदुक्तं प्रचकार साध्वी; ते चापि सर्वेऽभ्यवजह्रुरन्नम्

Mahabharata

Adi Parva, Adhyaya 184, Verse 8

कुशैस्तु भूमौ शयनं चकार; माद्रीसुतः सहदेवस्तरस्वी

यथात्मीयान्यजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर्धरण्याम्

Mahabharata

Adi Parva, Adhyaya 184, Verse 9

अगस्त्यशास्तामभितो दिशं तु; शिरांसि तेषां कुरुसत्तमानाम्

कुन्ती पुरस्तात्तु बभूव तेषां; कृष्णा तिरश्चैव बभूव पत्तः

Mahabharata

Adi Parva, Adhyaya 184, Verse 10

अशेत भूमौ सह पाण्डुपुत्रैः; पादोपधानेव कृता कुशेषु

न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुंगवांस्तान्

Mahabharata

Adi Parva, Adhyaya 184, Verse 11

ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः

अस्त्राणि दिव्यानि रथांश्च नागा;न्खड्गान्गदाश्चापि परश्वधांश्च

Mahabharata

Adi Parva, Adhyaya 184, Verse 12

तेषां कथास्ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस्तदानीम्

शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर्मनुष्याः

Mahabharata

Adi Parva, Adhyaya 184, Verse 13

धृष्टद्युम्नो राजपुत्रस्तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ

सर्वं राज्ञे द्रुपदायाखिलेन; निवेदयिष्यंस्त्वरितो जगाम

Mahabharata

Adi Parva, Adhyaya 184, Verse 14

पाञ्चालराजस्तु विषण्णरूप;स्तान्पाण्डवानप्रतिविन्दमानः

धृष्टद्युम्नं पर्यपृच्छन्महात्मा; क्व सा गता केन नीता च कृष्णा

Mahabharata

Adi Parva, Adhyaya 184, Verse 15

कच्चिन्न शूद्रेण न हीनजेन; वैश्येन वा करदेनोपपन्ना

कच्चित्पदं मूर्ध्नि न मे निदिग्धं; कच्चिन्माला पतिता न श्मशाने

Mahabharata

Adi Parva, Adhyaya 184, Verse 16

कच्चित्सवर्णप्रवरो मनुष्य; उद्रिक्तवर्णोऽप्युत वेह कच्चित्

कच्चिन्न वामो मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतोऽद्य पुत्र

Mahabharata

Adi Parva, Adhyaya 184, Verse 17

कच्चिच्च यक्ष्ये परमप्रतीतः; संयुज्य पार्थेन नरर्षभेण

ब्रवीहि तत्त्वेन महानुभावः; कोऽसौ विजेता दुहितुर्ममाद्य

Mahabharata

Adi Parva, Adhyaya 184, Verse 18

विचित्रवीर्यस्य तु कच्चिदद्य; कुरुप्रवीरस्य धरन्ति पुत्राः

कच्चित्तु पार्थेन यवीयसाद्य; धनुर्गृहीतं निहतं च लक्ष्यम्