Mahabharata

Adi Parva, Adhyaya 183

Containing 9 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 183, Verse 1

भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोस्तनयास्तदानीम्

तमेवार्थं ध्यायमाना मनोभि;रासां चक्रुरथ तत्रामितौजाः

Mahabharata

Adi Parva, Adhyaya 183, Verse 2

वृष्णिप्रवीरस्तु कुरुप्रवीरा;नाशङ्कमानः सहरौहिणेयः

जगाम तां भार्गवकर्मशालां; यत्रासते ते पुरुषप्रवीराः

Mahabharata

Adi Parva, Adhyaya 183, Verse 3

तत्रोपविष्टं पृथुदीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः

अजातशत्रुं परिवार्य तांश्च; उपोपविष्टाञ्ज्वलनप्रकाशान्

Mahabharata

Adi Parva, Adhyaya 183, Verse 4

ततोऽब्रवीद्वासुदेवोऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्ठम्

कृष्णोऽहमस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः

Mahabharata

Adi Parva, Adhyaya 183, Verse 5

तथैव तस्याप्यनु रौहिणेय;स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन्

पितृष्वसुश्चापि यदुप्रवीरा;वगृह्णतां भारतमुख्य पादौ

Mahabharata

Adi Parva, Adhyaya 183, Verse 6

अजातशत्रुश्च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य

कथं वयं वासुदेव त्वयेह; गूढा वसन्तो विदिताः स्म सर्वे

Mahabharata

Adi Parva, Adhyaya 183, Verse 7

तमब्रवीद्वासुदेवः प्रहस्य; गूढोऽप्यग्निर्ज्ञायत एव राजन्

तं विक्रमं पाण्डवेयानतीत्य; कोऽन्यः कर्ता विद्यते मानुषेषु

Mahabharata

Adi Parva, Adhyaya 183, Verse 8

दिष्ट्या तस्मात्पावकात्संप्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः

दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः; सहामात्यो न सकामोऽभविष्यत्

Mahabharata

Adi Parva, Adhyaya 183, Verse 9

भद्रं वोऽस्तु निहितं यद्गुहायां; विवर्धध्वं ज्वलन इवेध्यमानः

मा वो विद्युः पार्थिवाः केचनेह; यास्यावहे शिबिरायैव तावत्

सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः; प्रायाच्छीघ्रं बलदेवेन सार्धम्