Mahabharata

Adi Parva, Adhyaya 181

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 181, Verse 1

अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः

ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान्

Mahabharata

Adi Parva, Adhyaya 181, Verse 2

तानेवं वदतो विप्रानर्जुनः प्रहसन्निव

उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः

Mahabharata

Adi Parva, Adhyaya 181, Verse 3

अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः

वारयिष्यामि संक्रुद्धान्मन्त्रैराशीविषानिव

Mahabharata

Adi Parva, Adhyaya 181, Verse 4

इति तद्धनुरादाय शुल्कावाप्तं महारथः

भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः

Mahabharata

Adi Parva, Adhyaya 181, Verse 5

ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान्

संपेततुरभीतौ तौ गजौ प्रतिगजानिव

Mahabharata

Adi Parva, Adhyaya 181, Verse 6

ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः

आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः

Mahabharata

Adi Parva, Adhyaya 181, Verse 7

ततो वैकर्तनः कर्णो जगामार्जुनमोजसा

युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा

Mahabharata

Adi Parva, Adhyaya 181, Verse 8

भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली

दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह संगताः

मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे

Mahabharata

Adi Parva, Adhyaya 181, Verse 9

ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः

कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः

Mahabharata

Adi Parva, Adhyaya 181, Verse 10

तेषां शराणां वेगेन शितानां तिग्मतेजसाम्

विमुह्यमानो राधेयो यत्नात्तमनुधावति

Mahabharata

Adi Parva, Adhyaya 181, Verse 11

तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ

अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ

Mahabharata

Adi Parva, Adhyaya 181, Verse 12

कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे

इति शूरार्थवचनैराभाषेतां परस्परम्

Mahabharata

Adi Parva, Adhyaya 181, Verse 13

ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि

ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत्

Mahabharata

Adi Parva, Adhyaya 181, Verse 14

अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा

प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन्

Mahabharata

Adi Parva, Adhyaya 181, Verse 15

तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे

अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च

Mahabharata

Adi Parva, Adhyaya 181, Verse 16

किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम

अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः

Mahabharata

Adi Parva, Adhyaya 181, Verse 17

आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः

विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे

Mahabharata

Adi Parva, Adhyaya 181, Verse 18

न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः

पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः

Mahabharata

Adi Parva, Adhyaya 181, Verse 19

तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत

नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान्

ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः

Mahabharata

Adi Parva, Adhyaya 181, Verse 20

ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात्

स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव

Mahabharata

Adi Parva, Adhyaya 181, Verse 21

एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत

ब्राह्मं तेजस्तदाजय्यं मन्यमानो महारथः

Mahabharata

Adi Parva, Adhyaya 181, Verse 22

युद्धं तूपेयतुस्तत्र राजञ्शल्यवृकोदरौ

बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च

Mahabharata

Adi Parva, Adhyaya 181, Verse 23

अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ

मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम्

मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम्

Mahabharata

Adi Parva, Adhyaya 181, Verse 24

ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे

न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः

Mahabharata

Adi Parva, Adhyaya 181, Verse 25

तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः

यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली

Mahabharata

Adi Parva, Adhyaya 181, Verse 26

पातिते भीमसेनेन शल्ये कर्णे च शङ्किते

शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम्

Mahabharata

Adi Parva, Adhyaya 181, Verse 27

ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः

विज्ञायन्तां क्वजन्मानः क्वनिवासास्तथैव च

Mahabharata

Adi Parva, Adhyaya 181, Verse 28

को हि राधासुतं कर्णं शक्तो योधयितुं रणे

अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः

Mahabharata

Adi Parva, Adhyaya 181, Verse 29

कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परंतपात्

को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे

Mahabharata

Adi Parva, Adhyaya 181, Verse 30

तथैव मद्रराजानं शल्यं बलवतां वरम्

बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात्