Mahabharata

Adi Parva, Adhyaya 180

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 180, Verse 1

तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने

कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात्

Mahabharata

Adi Parva, Adhyaya 180, Verse 2

अस्मानयमतिक्रम्य तृणीकृत्य च संगतान्

दातुमिच्छति विप्राय द्रौपदीं योषितां वराम्

Mahabharata

Adi Parva, Adhyaya 180, Verse 3

निहन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते

न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः

Mahabharata

Adi Parva, Adhyaya 180, Verse 4

हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम्

अयं हि सर्वानाहूय सत्कृत्य च नराधिपान्

गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति

Mahabharata

Adi Parva, Adhyaya 180, Verse 5

अस्मिन्राजसमावाये देवानामिव संनये

किमयं सदृशं कंचिन्नृपतिं नैव दृष्टवान्

Mahabharata

Adi Parva, Adhyaya 180, Verse 6

न च विप्रेष्वधीकारो विद्यते वरणं प्रति

स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः

Mahabharata

Adi Parva, Adhyaya 180, Verse 7

अथ वा यदि कन्येयं नेह कंचिद्बुभूषति

अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः

Mahabharata

Adi Parva, Adhyaya 180, Verse 8

ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम्

विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथंचन

Mahabharata

Adi Parva, Adhyaya 180, Verse 9

ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च

पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम्

Mahabharata

Adi Parva, Adhyaya 180, Verse 10

अवमानभयादेतत्स्वधर्मस्य च रक्षणात्

स्वयंवराणां चान्येषां मा भूदेवंविधा गतिः

Mahabharata

Adi Parva, Adhyaya 180, Verse 11

इत्युक्त्वा राजशार्दूला हृष्टाः परिघबाहवः

द्रुपदं संजिघृक्षन्तः सायुधाः समुपाद्रवन्

Mahabharata

Adi Parva, Adhyaya 180, Verse 12

तान्गृहीतशरावापान्क्रुद्धानापततो नृपान्

द्रुपदो वीक्ष्य संत्रासाद्ब्राह्मणाञ्शरणं गतः

Mahabharata

Adi Parva, Adhyaya 180, Verse 13

वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान्

पाण्डुपुत्रौ महावीर्यौ प्रतीयतुररिंदमौ

Mahabharata

Adi Parva, Adhyaya 180, Verse 14

ततः समुत्पेतुरुदायुधास्ते; महीक्षितो बद्धतलाङ्गुलित्राः

जिघांसमानाः कुरुराजपुत्रा;वमर्षयन्तोऽर्जुनभीमसेनौ

Mahabharata

Adi Parva, Adhyaya 180, Verse 15

ततस्तु भीमोऽद्भुतवीर्यकर्मा; महाबलो वज्रसमानवीर्यः

उत्पाट्य दोर्भ्यां द्रुममेकवीरो; निष्पत्रयामास यथा गजेन्द्रः

Mahabharata

Adi Parva, Adhyaya 180, Verse 16

तं वृक्षमादाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम्

तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथुदीर्घबाहुः

Mahabharata

Adi Parva, Adhyaya 180, Verse 17

तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धे;र्जिष्णोः सहभ्रातुरचिन्त्यकर्मा

दामोदरो भ्रातरमुग्रवीर्यं; हलायुधं वाक्यमिदं बभाषे

Mahabharata

Adi Parva, Adhyaya 180, Verse 18

य एष मत्तर्षभतुल्यगामी; महद्धनुः कर्षति तालमात्रम्

एषोऽर्जुनो नात्र विचार्यमस्ति; यद्यस्मि संकर्षण वासुदेवः

Mahabharata

Adi Parva, Adhyaya 180, Verse 19

य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः

वृकोदरो नान्य इहैतदद्य; कर्तुं समर्थो भुवि मर्त्यधर्मा

Mahabharata

Adi Parva, Adhyaya 180, Verse 20

योऽसौ पुरस्तात्कमलायताक्ष;स्तनुर्महासिंहगतिर्विनीतः

गौरः प्रलम्बोज्ज्वलचारुघोणो; विनिःसृतः सोऽच्युत धर्मराजः

Mahabharata

Adi Parva, Adhyaya 180, Verse 21

यौ तौ कुमाराविव कार्त्तिकेयौ; द्वावश्विनेयाविति मे प्रतर्कः

मुक्ता हि तस्माज्जतुवेश्मदाहा;न्मया श्रुताः पाण्डुसुताः पृथा च

Mahabharata

Adi Parva, Adhyaya 180, Verse 22

तमब्रवीन्निर्मलतोयदाभो; हलायुधोऽनन्तरजं प्रतीतः

प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः