Mahabharata

Adi Parva, Adhyaya 179

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 179, Verse 1

यदा निवृत्ता राजानो धनुषः सज्यकर्मणि

अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः

Mahabharata

Adi Parva, Adhyaya 179, Verse 2

उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च

दृष्ट्वा संप्रस्थितं पार्थमिन्द्रकेतुसमप्रभम्

Mahabharata

Adi Parva, Adhyaya 179, Verse 3

केचिदासन्विमनसः केचिदासन्मुदा युताः

आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः

Mahabharata

Adi Parva, Adhyaya 179, Verse 4

यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः

नानतं बलवद्भिर्हि धनुर्वेदपरायणैः

Mahabharata

Adi Parva, Adhyaya 179, Verse 5

तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा

बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः

Mahabharata

Adi Parva, Adhyaya 179, Verse 6

अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु

कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते

Mahabharata

Adi Parva, Adhyaya 179, Verse 7

यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्मचापलात्

प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत्

Mahabharata

Adi Parva, Adhyaya 179, Verse 8

नावहास्या भविष्यामो न च लाघवमास्थिताः

न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम्

Mahabharata

Adi Parva, Adhyaya 179, Verse 9

केचिदाहुर्युवा श्रीमान्नागराजकरोपमः

पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव

Mahabharata

Adi Parva, Adhyaya 179, Verse 10

संभाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते

शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत्

Mahabharata

Adi Parva, Adhyaya 179, Verse 11

न च तद्विद्यते किंचित्कर्म लोकेषु यद्भवेत्

ब्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु

Mahabharata

Adi Parva, Adhyaya 179, Verse 12

अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः

दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा

Mahabharata

Adi Parva, Adhyaya 179, Verse 13

ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन्

सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम्

Mahabharata

Adi Parva, Adhyaya 179, Verse 14

एवं तेषां विलपतां विप्राणां विविधा गिरः

अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः

Mahabharata

Adi Parva, Adhyaya 179, Verse 15

स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत्

प्रणम्य शिरसा हृष्टो जगृहे च परंतपः

Mahabharata

Adi Parva, Adhyaya 179, Verse 16

सज्यं च चक्रे निमिषान्तरेण; शरांश्च जग्राह दशार्धसंख्यान्

विव्याध लक्ष्यं निपपात तच्च; छिद्रेण भूमौ सहसातिविद्धम्

Mahabharata

Adi Parva, Adhyaya 179, Verse 17

ततोऽन्तरिक्षे च बभूव नादः; समाजमध्ये च महान्निनादः

पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषतां निहन्तुः

Mahabharata

Adi Parva, Adhyaya 179, Verse 18

चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः

न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः

Mahabharata

Adi Parva, Adhyaya 179, Verse 19

शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन्

सूतमागधसंघाश्च अस्तुवंस्तत्र सुस्वनाः

Mahabharata

Adi Parva, Adhyaya 179, Verse 20

तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः

सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः

Mahabharata

Adi Parva, Adhyaya 179, Verse 21

तस्मिंस्तु शब्दे महति प्रवृत्ते; युधिष्ठिरो धर्मभृतां वरिष्ठः

आवासमेवोपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषोत्तमाभ्याम्

Mahabharata

Adi Parva, Adhyaya 179, Verse 22

विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा; पार्थं च शक्रप्रतिमं निरीक्ष्य

आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतमुत्स्मयन्ती

Mahabharata

Adi Parva, Adhyaya 179, Verse 23

स तामुपादाय विजित्य रङ्गे; द्विजातिभिस्तैरभिपूज्यमानः

रङ्गान्निरक्रामदचिन्त्यकर्मा; पत्न्या तया चाप्यनुगम्यमानः