Mahabharata

Adi Parva, Adhyaya 177

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 177, Verse 1

दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः

विविंशतिर्विकर्णश्च सहो दुःशासनः समः

Mahabharata

Adi Parva, Adhyaya 177, Verse 2

युयुत्सुर्वातवेगश्च भीमवेगधरस्तथा

उग्रायुधो बलाकी च कनकायुर्विरोचनः

Mahabharata

Adi Parva, Adhyaya 177, Verse 3

सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः

नन्दको बाहुशाली च कुण्डजो विकटस्तथा

Mahabharata

Adi Parva, Adhyaya 177, Verse 4

एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः

कर्णेन सहिता वीरास्त्वदर्थं समुपागताः

शतसंख्या महात्मानः प्रथिताः क्षत्रियर्षभाः

Mahabharata

Adi Parva, Adhyaya 177, Verse 5

शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः

एते गान्धारराजस्य सुताः सर्वे समागताः

Mahabharata

Adi Parva, Adhyaya 177, Verse 6

अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ

समवेतौ महात्मानौ त्वदर्थे समलंकृतौ

Mahabharata

Adi Parva, Adhyaya 177, Verse 7

बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान्

सहदेवो जयत्सेनो मेघसंधिश्च मागधः

Mahabharata

Adi Parva, Adhyaya 177, Verse 8

विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च

वार्धक्षेमिः सुवर्चाश्च सेनाबिन्दुश्च पार्थिवः

Mahabharata

Adi Parva, Adhyaya 177, Verse 9

अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा

सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा

Mahabharata

Adi Parva, Adhyaya 177, Verse 10

सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा

अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः

Mahabharata

Adi Parva, Adhyaya 177, Verse 11

समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान्

जलसंधः पितापुत्रौ सुदण्डो दण्ड एव च

Mahabharata

Adi Parva, Adhyaya 177, Verse 12

पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान्

कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा

Mahabharata

Adi Parva, Adhyaya 177, Verse 13

मद्रराजस्तथा शल्यः सहपुत्रो महारथः

रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च

Mahabharata

Adi Parva, Adhyaya 177, Verse 14

कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः

समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः

Mahabharata

Adi Parva, Adhyaya 177, Verse 15

सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः

बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा

Mahabharata

Adi Parva, Adhyaya 177, Verse 16

संकर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान्

साम्बश्च चारुदेष्णश्च सारणोऽथ गदस्तथा

Mahabharata

Adi Parva, Adhyaya 177, Verse 17

अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः

कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च

Mahabharata

Adi Parva, Adhyaya 177, Verse 18

विडूरथश्च कङ्कश्च समीकः सारमेजयः

वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा

उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः

Mahabharata

Adi Parva, Adhyaya 177, Verse 19

भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः

बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः

Mahabharata

Adi Parva, Adhyaya 177, Verse 20

उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ

वत्सराजश्च धृतिमान्कोसलाधिपतिस्तथा

Mahabharata

Adi Parva, Adhyaya 177, Verse 21

एते चान्ये च बहवो नानाजनपदेश्वराः

त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि

Mahabharata

Adi Parva, Adhyaya 177, Verse 22

एते वेत्स्यन्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम्

विध्येत य इमं लक्ष्यं वरयेथाः शुभेऽद्य तम्