Mahabharata

Adi Parva, Adhyaya 176

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 176, Verse 1

एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय

राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान्

Mahabharata

Adi Parva, Adhyaya 176, Verse 2

ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम्

ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा

Mahabharata

Adi Parva, Adhyaya 176, Verse 3

तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः

कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम्

Mahabharata

Adi Parva, Adhyaya 176, Verse 4

पश्यन्तो रमणीयानि वनानि च सरांसि च

तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः

Mahabharata

Adi Parva, Adhyaya 176, Verse 5

स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः

आनुपूर्व्येण संप्राप्ताः पाञ्चालान्कुरुनन्दनाः

Mahabharata

Adi Parva, Adhyaya 176, Verse 6

ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः

कुम्भकारस्य शालायां निवेशं चक्रिरे तदा

Mahabharata

Adi Parva, Adhyaya 176, Verse 7

तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः

तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्वचित्

Mahabharata

Adi Parva, Adhyaya 176, Verse 8

यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने

कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः

Mahabharata

Adi Parva, Adhyaya 176, Verse 9

सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय

दृढं धनुरनायम्यं कारयामास भारत

Mahabharata

Adi Parva, Adhyaya 176, Verse 10

यन्त्रं वैहायसं चापि कारयामास कृत्रिमम्

तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम्

Mahabharata

Adi Parva, Adhyaya 176, Verse 11

इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः

अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति

Mahabharata

Adi Parva, Adhyaya 176, Verse 12

इति स द्रुपदो राजा सर्वतः समघोषयत्

तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत

Mahabharata

Adi Parva, Adhyaya 176, Verse 13

ऋषयश्च महात्मानः स्वयंवरदिदृक्षया

दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप

Mahabharata

Adi Parva, Adhyaya 176, Verse 14

ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन्

तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना

Mahabharata

Adi Parva, Adhyaya 176, Verse 15

ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः

शिशुमारपुरं प्राप्य न्यविशंस्ते च पार्थिवाः

Mahabharata

Adi Parva, Adhyaya 176, Verse 16

प्रागुत्तरेण नगराद्भूमिभागे समे शुभे

समाजवाटः शुशुभे भवनैः सर्वतो वृतः

Mahabharata

Adi Parva, Adhyaya 176, Verse 17

प्राकारपरिखोपेतो द्वारतोरणमण्डितः

वितानेन विचित्रेण सर्वतः समवस्तृतः

Mahabharata

Adi Parva, Adhyaya 176, Verse 18

तूर्यौघशतसंकीर्णः परार्ध्यागुरुधूपितः

चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः

Mahabharata

Adi Parva, Adhyaya 176, Verse 19

कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः

सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः

Mahabharata

Adi Parva, Adhyaya 176, Verse 20

सुवर्णजालसंवीतैर्मणिकुट्टिमभूषितैः

सुखारोहणसोपानैर्महासनपरिच्छदैः

Mahabharata

Adi Parva, Adhyaya 176, Verse 21

अग्राम्यसमवच्छन्नैरगुरूत्तमवासितैः

हंसाच्छवर्णैर्बहुभिरायोजनसुगन्धिभिः

Mahabharata

Adi Parva, Adhyaya 176, Verse 22

असंबाधशतद्वारैः शयनासनशोभितैः

बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव

Mahabharata

Adi Parva, Adhyaya 176, Verse 23

तत्र नानाप्रकारेषु विमानेषु स्वलंकृताः

स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः

Mahabharata

Adi Parva, Adhyaya 176, Verse 24

तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान्

राजसिंहान्महाभागान्कृष्णागुरुविभूषितान्

Mahabharata

Adi Parva, Adhyaya 176, Verse 25

महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्रपरिरक्षिणः

प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः

Mahabharata

Adi Parva, Adhyaya 176, Verse 26

मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः

कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन्

Mahabharata

Adi Parva, Adhyaya 176, Verse 27

ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन्

ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम्

Mahabharata

Adi Parva, Adhyaya 176, Verse 28

ततः समाजो ववृधे स राजन्दिवसान्बहून्

रत्नप्रदानबहुलः शोभितो नटनर्तकैः

Mahabharata

Adi Parva, Adhyaya 176, Verse 29

वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे

आप्लुताङ्गी सुवसना सर्वाभरणभूषिता

Mahabharata

Adi Parva, Adhyaya 176, Verse 30

वीरकांस्यमुपादाय काञ्चनं समलंकृतम्

अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ