Adi Parva, Adhyaya 173, Verse 1
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे
कारणं किं पुरस्कृत्य भार्या वै संनियोजिता
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे
कारणं किं पुरस्कृत्य भार्या वै संनियोजिता
जानता च परं धर्मं लोक्यं तेन महात्मना
अगम्यागमनं कस्माद्वसिष्ठेन महात्मना
कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः
धनंजय निबोधेदं यन्मां त्वं परिपृच्छसि
वसिष्ठं प्रति दुर्धर्षं तथामित्रसहं नृपम्
कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः
शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना
स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः
निर्जगाम पुराद्राजा सहदारः परंतपः
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे
नानामृगगणाकीर्णं नानासत्त्वसमाकुलम्
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम्
अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन्
स कदाचित्क्षुधाविष्टो मृगयन्भक्षमात्मनः
ददर्श सुपरिक्लिष्टः कस्मिंश्चिद्वननिर्झरे
ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसंगतौ
तौ समीक्ष्य तु वित्रस्तावकृतार्थौ प्रधावितौ
तयोश्च द्रवतोर्विप्रं जगृहे नृपतिर्बलात्
दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत
शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत
आदित्यवंशप्रभवस्त्वं हि लोकपरिश्रुतः
अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः
शापं प्राप्तोऽसि दुर्धर्ष न पापं कर्तुमर्हसि
ऋतुकाले तु संप्राप्ते भर्त्रास्म्यद्य समागता
अकृतार्था ह्यहं भर्त्रा प्रसवार्थश्च मे महान्
प्रसीद नृपतिश्रेष्ठ भर्ता मेऽयं विसृज्यताम्
एवं विक्रोशमानायास्तस्याः स सुनृशंसकृत्
भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम्
तस्याः क्रोधाभिभूताया यदश्रु न्यपतद्भुवि
सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत्
ततः सा शोकसंतप्ता भर्तृव्यसनदुःखिता
कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा
यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत्
प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः
तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः
पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम्
यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः
तेन संगम्य ते भार्या तनयं जनयिष्यति
स ते वंशकरः पुत्रो भविष्यति नृपाधम
एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा
तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम्
वसिष्ठश्च महाभागः सर्वमेतदपश्यत
ज्ञानयोगेन महता तपसा च परंतप
मुक्तशापश्च राजर्षिः कालेन महता ततः
ऋतुकालेऽभिपतितो मदयन्त्या निवारितः
न हि सस्मार नृपतिस्तं शापं शापमोहितः
देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः
तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा
एतस्मात्कारणाद्राजा वसिष्ठं संन्ययोजयत्
स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः