Mahabharata

Adi Parva, Adhyaya 170

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 170, Verse 1

नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता

अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः

Mahabharata

Adi Parva, Adhyaya 170, Verse 2

तेन चक्षूंषि वस्तात नूनं कोपान्महात्मना

स्मरता निहतान्बन्धूनादत्तानि न संशयः

Mahabharata

Adi Parva, Adhyaya 170, Verse 3

गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः

तदायमूरुणा गर्भो मया वर्षशतं धृतः

Mahabharata

Adi Parva, Adhyaya 170, Verse 4

षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि

विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया

Mahabharata

Adi Parva, Adhyaya 170, Verse 5

सोऽयं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति

तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः

Mahabharata

Adi Parva, Adhyaya 170, Verse 6

तमिमं तात याचध्वमौर्वं मम सुतोत्तमम्

अयं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति

Mahabharata

Adi Parva, Adhyaya 170, Verse 7

एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम्

ऊचुः प्रसीदेति तदा प्रसादं च चकार सः

Mahabharata

Adi Parva, Adhyaya 170, Verse 8

अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः

स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत

Mahabharata

Adi Parva, Adhyaya 170, Verse 9

चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः

भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम्

Mahabharata

Adi Parva, Adhyaya 170, Verse 10

स चक्रे तात लोकानां विनाशाय महामनाः

सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः

Mahabharata

Adi Parva, Adhyaya 170, Verse 11

इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः

सर्वलोकविनाशाय तपसा महतैधितः

Mahabharata

Adi Parva, Adhyaya 170, Verse 12

तापयामास लोकान्स सदेवासुरमानुषान्

तपसोग्रेण महता नन्दयिष्यन्पितामहान्

Mahabharata

Adi Parva, Adhyaya 170, Verse 13

ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम्

पितृलोकादुपागम्य सर्व ऊचुरिदं वचः

Mahabharata

Adi Parva, Adhyaya 170, Verse 14

और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक

प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः

Mahabharata

Adi Parva, Adhyaya 170, Verse 15

नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः

वधोऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम्

Mahabharata

Adi Parva, Adhyaya 170, Verse 16

आयुषा हि प्रकृष्टेन यदा नः खेद आविशत्

तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम्

Mahabharata

Adi Parva, Adhyaya 170, Verse 17

निखातं तद्धि वै वित्तं केनचिद्भृगुवेश्मनि

वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः

किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ

Mahabharata

Adi Parva, Adhyaya 170, Verse 18

यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः

तदास्माभिरयं दृष्ट उपायस्तात संमतः

Mahabharata

Adi Parva, Adhyaya 170, Verse 19

आत्महा च पुमांस्तात न लोकाँल्लभते शुभान्

ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः

Mahabharata

Adi Parva, Adhyaya 170, Verse 20

न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि

नियच्छेदं मनः पापात्सर्वलोकपराभवात्

Mahabharata

Adi Parva, Adhyaya 170, Verse 21

न हि नः क्षत्रियाः केचिन्न लोकाः सप्त पुत्रक

दूषयन्ति तपस्तेजः क्रोधमुत्पतितं जहि