Mahabharata

Adi Parva, Adhyaya 168

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 168, Verse 1

मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथंचन

नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम्

Mahabharata

Adi Parva, Adhyaya 168, Verse 2

राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि

स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः

Mahabharata

Adi Parva, Adhyaya 168, Verse 3

तमापतन्तं संप्रेक्ष्य वसिष्ठो भगवानृषिः

वारयामास तेजस्वी हुंकरेणैव भारत

Mahabharata

Adi Parva, Adhyaya 168, Verse 4

मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा

मोक्षयामास वै घोराद्राक्षसाद्राजसत्तमम्

Mahabharata

Adi Parva, Adhyaya 168, Verse 5

स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा

ग्रस्त आसीद्गृहेणेव पर्वकाले दिवाकरः

Mahabharata

Adi Parva, Adhyaya 168, Verse 6

रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत्

तेजसा रञ्जयामास संध्याभ्रमिव भास्करः

Mahabharata

Adi Parva, Adhyaya 168, Verse 7

प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः

उवाच नृपतिः काले वसिष्ठमृषिसत्तमम्

Mahabharata

Adi Parva, Adhyaya 168, Verse 8

सौदासोऽहं महाभाग याज्यस्ते द्विजसत्तम

अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते

Mahabharata

Adi Parva, Adhyaya 168, Verse 9

वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत्

ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदाचन

Mahabharata

Adi Parva, Adhyaya 168, Verse 10

नावमंस्याम्यहं ब्रह्मन्कदाचिद्ब्राह्मणर्षभान्

त्वन्निदेशे स्थितः शश्वत्पुजयिष्याम्यहं द्विजान्

Mahabharata

Adi Parva, Adhyaya 168, Verse 11

इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम

तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर

Mahabharata

Adi Parva, Adhyaya 168, Verse 12

अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि

शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये

Mahabharata

Adi Parva, Adhyaya 168, Verse 13

ददानीत्येव तं तत्र राजानं प्रत्युवाच ह

वसिष्ठः परमेष्वासं सत्यसंधो द्विजोत्तमः

Mahabharata

Adi Parva, Adhyaya 168, Verse 14

ततः प्रतिययौ काले वसिष्ठसहितोऽनघ

ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः

Mahabharata

Adi Parva, Adhyaya 168, Verse 15

तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा

विपाप्मानं महात्मानं दिवौकस इवेश्वरम्

Mahabharata

Adi Parva, Adhyaya 168, Verse 16

अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम्

विवेश सहितस्तेन वसिष्ठेन महात्मना

Mahabharata

Adi Parva, Adhyaya 168, Verse 17

ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः

पुष्येण सहितं काले दिवाकरमिवोदितम्

Mahabharata

Adi Parva, Adhyaya 168, Verse 18

स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः

अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः

Mahabharata

Adi Parva, Adhyaya 168, Verse 19

संसिक्तमृष्टपन्थानं पताकोच्छ्रयभूषितम्

मनः प्रह्लादयामासा तस्य तत्पुरमुत्तमम्

Mahabharata

Adi Parva, Adhyaya 168, Verse 20

तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन

अशोभत तदा तेन शक्रेणेवामरावती

Mahabharata

Adi Parva, Adhyaya 168, Verse 21

ततः प्रविष्टे राजेन्द्रे तस्मिन्राजनि तां पुरीम्

तस्य राज्ञोऽऽज्ञया देवी वसिष्ठमुपचक्रमे

Mahabharata

Adi Parva, Adhyaya 168, Verse 22

ऋतावथ महर्षिः स संबभूव तया सह

देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः

Mahabharata

Adi Parva, Adhyaya 168, Verse 23

अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः

राज्ञाभिवादितस्तेन जगाम पुनराश्रमम्

Mahabharata

Adi Parva, Adhyaya 168, Verse 24

दीर्घकालधृतं गर्भं सुषाव न तु तं यदा

साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम्

Mahabharata

Adi Parva, Adhyaya 168, Verse 25

द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ

अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत्