Adi Parva, Adhyaya 167, Verse 1
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः
निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः
निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः
सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा
वृक्षान्बहुविधान्पार्थ वहन्तीं तीरजान्बहून्
अथ चिन्तां समापेदे पुनः पौरवनन्दन
अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः
ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः
तस्या जले महानद्या निममज्ज सुदुःखितः
अथ छित्त्वा नदी पाशांस्तस्यारिबलमर्दन
समस्थं तमृषिं कृत्वा विपाशं समवासृजत्
उत्ततार ततः पाशैर्विमुक्तः स महानृषिः
विपाशेति च नामास्या नद्याश्चक्रे महानृषिः
शोके बुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठत
सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च
ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा
चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत्
सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा
शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना
मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ
वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन्
अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम्
पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलंकृतम्
अनुव्रजति को न्वेष मामित्येव च सोऽब्रवीत्
अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत
शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः
पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः
अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते
समा द्वादश तस्येह वेदानभ्यसतो मुने
एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठभागृषिः
अस्ति संतानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत
ततः प्रतिनिवृत्तः स तया वध्वा सहानघ
कल्माषपादमासीनं ददर्श विजने वने
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत
आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम्
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः
भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत्
असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः
प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः
तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन
त्वदृतेऽद्य महाभाग सर्ववेदविदां वर
त्राहि मां भगवन्पापादस्माद्दारुणदर्शनात्
रक्षो अत्तुमिह ह्यावां नूनमेतच्चिकीर्षति