Mahabharata

Adi Parva, Adhyaya 166

Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 166, Verse 1

कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह

इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि

Mahabharata

Adi Parva, Adhyaya 166, Verse 2

स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात्

मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः

Mahabharata

Adi Parva, Adhyaya 166, Verse 3

स तु राजा महात्मानं वासिष्ठमृषिसत्तमम्

तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि

Mahabharata

Adi Parva, Adhyaya 166, Verse 4

अपश्यदजितः संख्ये मुनिं प्रतिमुखागतम्

शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम्

ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः

Mahabharata

Adi Parva, Adhyaya 166, Verse 5

अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत्

तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा

Mahabharata

Adi Parva, Adhyaya 166, Verse 6

ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः

नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह

Mahabharata

Adi Parva, Adhyaya 166, Verse 7

अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः

जघान कशया मोहात्तदा राक्षसवन्मुनिम्

Mahabharata

Adi Parva, Adhyaya 166, Verse 8

कशाप्रहाराभिहतस्ततः स मुनिसत्तमः

तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः

Mahabharata

Adi Parva, Adhyaya 166, Verse 9

हंसि राक्षसवद्यस्माद्राजापसद तापसम्

तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि

Mahabharata

Adi Parva, Adhyaya 166, Verse 10

मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम्

गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना

Mahabharata

Adi Parva, Adhyaya 166, Verse 11

ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः

वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत

Mahabharata

Adi Parva, Adhyaya 166, Verse 12

तयोर्विवदतोरेवं समीपमुपचक्रमे

ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान्

Mahabharata

Adi Parva, Adhyaya 166, Verse 13

ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः

ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा

Mahabharata

Adi Parva, Adhyaya 166, Verse 14

अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत

तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम्

Mahabharata

Adi Parva, Adhyaya 166, Verse 15

स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः

जगाम शरणं शक्तिं प्रसादयितुमर्हयन्

Mahabharata

Adi Parva, Adhyaya 166, Verse 16

तस्य भावं विदित्वा स नृपतेः कुरुनन्दन

विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति

Mahabharata

Adi Parva, Adhyaya 166, Verse 17

स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया

राक्षसः किंकरो नाम विवेश नृपतिं तदा

Mahabharata

Adi Parva, Adhyaya 166, Verse 18

रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा

विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम

Mahabharata

Adi Parva, Adhyaya 166, Verse 19

ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना

बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह

Mahabharata

Adi Parva, Adhyaya 166, Verse 20

ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः

ययाचे क्षुधितश्चैनं समांसं भोजनं तदा

Mahabharata

Adi Parva, Adhyaya 166, Verse 21

तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा

आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन्

Mahabharata

Adi Parva, Adhyaya 166, Verse 22

निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम्

इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः

Mahabharata

Adi Parva, Adhyaya 166, Verse 23

अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम्

सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः

Mahabharata

Adi Parva, Adhyaya 166, Verse 24

ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम्

उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम्

Mahabharata

Adi Parva, Adhyaya 166, Verse 25

गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते

अन्नार्थी त्वं तमन्नेन समांसेनोपपादय

Mahabharata

Adi Parva, Adhyaya 166, Verse 26

एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित्

निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः

Mahabharata

Adi Parva, Adhyaya 166, Verse 27

राजा तु रक्षसाविष्टः सूदमाह गतव्यथः

अप्येनं नरमांसेन भोजयेति पुनः पुनः

Mahabharata

Adi Parva, Adhyaya 166, Verse 28

तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम्

गत्वा जहार त्वरितो नरमांसमपेतभीः

Mahabharata

Adi Parva, Adhyaya 166, Verse 29

स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै

तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने

Mahabharata

Adi Parva, Adhyaya 166, Verse 30

स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः

अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः