Mahabharata

Adi Parva, Adhyaya 165

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 165, Verse 1

किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः

वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत्

Mahabharata

Adi Parva, Adhyaya 165, Verse 2

इदं वासिष्ठमाख्यानं पुराणं परिचक्षते

पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे

Mahabharata

Adi Parva, Adhyaya 165, Verse 3

कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ

गाधीति विश्रुतो लोके सत्यधर्मपरायणः

Mahabharata

Adi Parva, Adhyaya 165, Verse 4

तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः

विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः

Mahabharata

Adi Parva, Adhyaya 165, Verse 5

स चचार सहामात्यो मृगयां गहने वने

मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु

Mahabharata

Adi Parva, Adhyaya 165, Verse 6

व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः

आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति

Mahabharata

Adi Parva, Adhyaya 165, Verse 7

तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः

विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया

Mahabharata

Adi Parva, Adhyaya 165, Verse 8

पाद्यार्घ्याचमनीयेन स्वागतेन च भारत

तथैव प्रतिजग्राह वन्येन हविषा तथा

Mahabharata

Adi Parva, Adhyaya 165, Verse 9

तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः

उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः

Mahabharata

Adi Parva, Adhyaya 165, Verse 10

ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च

षड्रसं चामृतरसं रसायनमनुत्तमम्

Mahabharata

Adi Parva, Adhyaya 165, Verse 11

भोजनीयानि पेयानि भक्ष्याणि विविधानि च

लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन

Mahabharata

Adi Parva, Adhyaya 165, Verse 12

तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः

सामात्यः सबलश्चैव तुतोष स भृशं नृपः

Mahabharata

Adi Parva, Adhyaya 165, Verse 13

षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम्

मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम्

Mahabharata

Adi Parva, Adhyaya 165, Verse 14

सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम्

पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम्

Mahabharata

Adi Parva, Adhyaya 165, Verse 15

अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम्

अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा

Mahabharata

Adi Parva, Adhyaya 165, Verse 16

अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः

नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने

Mahabharata

Adi Parva, Adhyaya 165, Verse 17

देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी

अदेया नन्दिनीयं मे राज्येनापि तवानघ

Mahabharata

Adi Parva, Adhyaya 165, Verse 18

क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः

ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु

Mahabharata

Adi Parva, Adhyaya 165, Verse 19

अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम्

स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम्

Mahabharata

Adi Parva, Adhyaya 165, Verse 20

बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः

यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय

Mahabharata

Adi Parva, Adhyaya 165, Verse 21

एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव

हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम्

Mahabharata

Adi Parva, Adhyaya 165, Verse 22

कशादण्डप्रतिहता काल्यमाना ततस्ततः

हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी

Mahabharata

Adi Parva, Adhyaya 165, Verse 23

आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी

भृशं च ताड्यमानापि न जगामाश्रमात्ततः

Mahabharata

Adi Parva, Adhyaya 165, Verse 24

शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः

बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम्

Mahabharata

Adi Parva, Adhyaya 165, Verse 25

सा तु तेषां बलान्नन्दी बलानां भरतर्षभ

विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत्

Mahabharata

Adi Parva, Adhyaya 165, Verse 26

पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत्

विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे

Mahabharata

Adi Parva, Adhyaya 165, Verse 27

एवं तस्यां तदा पर्थ धर्षितायां महामुनिः

न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः

Mahabharata

Adi Parva, Adhyaya 165, Verse 28

क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम्

क्षमा मां भजते तस्माद्गम्यतां यदि रोचते

Mahabharata

Adi Parva, Adhyaya 165, Verse 29

किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे

अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात्

Mahabharata

Adi Parva, Adhyaya 165, Verse 30

न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते

दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात्