Adi Parva, Adhyaya 164, Verse 1
स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ
अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ
अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ
उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः
जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात्
वसिष्ठ इति यस्यैतदृषेर्नाम त्वयेरितम्
एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे
य एष गन्धर्वपते पूर्वेषां नः पुरोहितः
आसीदेतन्ममाचक्ष्व क एष भगवानृषिः
तपसा निर्जितौ शश्वदजेयावमरैरपि
कामक्रोधावुभौ यस्य चरणौ संववाहतुः
यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः
विश्वामित्रापराधेन धारयन्मन्युमुत्तमम्
पुत्रव्यसनसंतप्तः शक्तिमानपि यः प्रभुः
विश्वामित्रविनाशाय न मेने कर्म दारुणम्
मृतांश्च पुनराहर्तुं यः स पुत्रान्यमक्षयात्
कृतान्तं नातिचक्राम वेलामिव महोदधिः
यं प्राप्य विजितात्मानं महात्मानं नराधिपाः
इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम्
पुरोहितवरं प्राप्य वसिष्ठमृषिसत्तमम्
ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन
स हि तान्याजयामास सर्वान्नृपतिसत्तमान्
ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान्
तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः
ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम्
क्षत्रियेण हि जातेन पृथिवीं जेतुमिच्छता
पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये
महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम्
तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः