Adi Parva, Adhyaya 163, Verse 1
यैषा ते तपती नाम सावित्र्यवरजा सुता
तां त्वां संवरणस्यार्थे वरयामि विभावसो
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
यैषा ते तपती नाम सावित्र्यवरजा सुता
तां त्वां संवरणस्यार्थे वरयामि विभावसो
स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः
युक्तः संवरणो भर्ता दुहितुस्ते विहंगम
इत्युक्तः सविता तेन ददानीत्येव निश्चितः
प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः
वरः संवरणो राज्ञां त्वमृषीणां वरो मुने
तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात्
ततः सर्वानवद्याङ्गीं तपतीं तपनः स्वयम्
ददौ संवरणस्यार्थे वसिष्ठाय महात्मने
प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा
वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह
यत्र विख्यातकीर्तिः स कुरूणामृषभोऽभवत्
स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना
दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम्
वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ
कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते
आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः
तपसाराध्य वरदं देवं गोपतिमीश्वरम्
लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा
ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते
जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः
वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे
सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया
ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च
आदिदेश महीपालस्तमेव सचिवं तदा
नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे
सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः
ततो द्वादश वर्षाणि काननेषु जलेषु च
रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया
तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः
न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः
तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः
अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम्
ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः
अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम्
तं च पार्थिवशार्दूलमानयामास तत्पुरम्
तपत्या सहितं राजन्नुषितं द्वादशीः समाः
ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा
तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः
ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा
तेन पार्थिवमुख्येन भावितं भावितात्मना
ततो द्वादश वर्षाणि पुनरीजे नराधिपः
पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः
एवमासीन्महाभागा तपती नाम पौर्विकी
तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः
तस्यां संजनयामास कुरुं संवरणो नृपः
तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन